Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir भवन्ति, द्वाविंशतितीर्थकरसाधूनां चत्वार्येव महाब्रतानि-तेषां तु स्त्री परिग्रह एव गण्यते । ७ ज्येष्ठःपुरुषज्येष्ठो धर्म:-शतवर्षदीक्षितया साध्व्या अद्य दीक्षितोऽपि साधुर्वन्दनीयः । श्रीआदीश्वर-महावीरयोः साधूनां दीक्षाद्वयं भवति-एका लघ्वी दीक्षा, अपरा बृहती दीक्षा भवति । लघुत्वम् , वृद्धत्वं च बृहद्दीक्षया गण्यते । द्वाविंशतितीर्थकरसाधूनां तु दीक्षायां भवन्त्यां सत्यामेव लघुत्वम् , वृद्धत्वं गण्यते एष ज्येष्ठकल्प उच्यते। ८ प्रतिक्रमणम्-श्रीआदीश्वर-महावीरयोः साधुभिरुभयकाले प्रतिक्रमणं कर्तव्यम् । द्वाविंशतिती १. यतस्ते एवं जानन्ति यद् अपरिगृहीतायाः स्त्रियाः भोगाऽसंभवात् स्त्री अपि परिग्रह एव, परिप्रहे प्रत्याख्याते स्त्री प्रत्याख्याता एव । प्रथम-चरमजिनसाधूनां तु तथाज्ञानाभावात् पञ्च व्रतानि ।। २. पितृ-पुत्र-मातृ-दुहित-राजा-अमात्य-श्रेष्ठि-वणिक्पुत्रादीनां सार्ध गृहीतदीक्षाणाम् उपस्थापने को विधिः ? उच्यते, यदि पित्रादयः पुत्रादयश्च समकमेव षड्जीवनिकायाध्ययन-योगोद्वहनादिभियोंग्यता प्राप्तास्तदा अनुक्रमेणैव उपस्थापना । अथ स्तोकम् अन्तरं तदा कियद्विलम्बेनाऽपि पित्रादीनामेव प्रथमम् उपस्थापना । अन्यथा | पुत्रादीनां वृद्धत्वेन, अन्येषां निष्प्रज्ञत्वेन महद् अन्तरं तदा स पित्रादिः एवं प्रतिबोध्यः-'भो महाभाग ! सप्रज्ञोऽपि तव पुत्रः अन्येभ्यो बहुभ्यो लघुभविष्यति, तव पुत्रे ज्येष्ठे तवैव गौरवम्' एवं प्रज्ञापितः स यदि अनुमन्यते तदा पुत्रादिः प्रथमम् उपस्थापनीयः, नान्यथा इति ॥ ३. अतिचारो भवतु, मा वा भवतु, परं श्रीऋषभवीरसाधूनाम् उभयं कालम् अवश्यं प्रतिक्रमणं कर्तव्यमेव, तथा पाक्षिकाद्यपि च । |शेषजिनमुनीनां तु दोषे सति प्रतिक्रमणम् , तत्राऽपि कारणसद्भावेऽपि देवसिक-रात्रिक एव प्रायः प्रतिक्रमणे । नतु पाक्षिक-चातुर्मा-IN For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 577