Book Title: Kalpsutram Author(s): Bhadrabahuswami, Lakshmivallabh Upadhyay Publisher: Nirnaysagar Press View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NAषष्ठे-"निर्वृतस्तु स्वातिनक्षत्रे कार्तिकाऽमावास्यायाम्" इति षष्ठं कल्याणकं प्रकटतया दर्शितम् , किञ्च समवायाङ्गसूत्रवृत्तौ अपि देवानन्दागर्भात् त्रिशलागर्भसंक्रमणे भवद्वयं विवक्षितम् , अत एव श्रीवीरस्य च्यवनद्वयसंसिद्धम् , एवं लोकप्रकाशे द्वात्रिंशत्तमे सर्गेऽपि द्रष्टव्यम् , तथा चतुर्दशपूर्वधरश्रीभद्रबाहुस्खामिनाऽपि कल्पसूत्रे, त्रिशलागर्भाऽऽगमनस्य तीर्थकरस्य च्यवनकल्याणकतया प्रतिपादितम्-“इमे एयारिसे सुभे सोमे पियदसणे सुरूवे सुमिणे दटूण सयणमञ्झे पडिबुद्धा अरविंदलोयणा हरिसपुलइअंगी 'एए चउदस सुमिणे, सबा पासेइ तित्थपर माया । जं रयणि वक्कमइ, कुच्छिसि महायसो अरिहा ॥१॥' तए णं सा तिसला खत्तियाणी इमे एयारूवे उराले कल्लाणे चउदस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्ट तुट्ठ जाव० हियया इत्यादि ॥" एवं कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिणाऽपि-त्रिषष्ठिशलाकापुरुषचरित्रे दशमपर्वणि द्वितीयसर्गे-आश्विनकृष्णत्रयोदश्याम् एव त्रिशलागर्भाऽवतरणसमये तीर्थकरस्य च्यवनसूचकचतुर्दशस्वप्नदर्शनम् , इन्द्रासनप्रकम्पनम् , अवधिनाऽवलोकनम् सिंहासनाद् उत्थानम् , शक्रस्तवनेन स्तुतिकरणं स्वप्नफलं तीर्थकरजन्म, धन-धान्यादिवृद्धिकरणं च कल्याणकयोग्यं योग्यतया वर्णितम् , तथा श्रीपार्श्वनाथस्वामिपरंपरायाः उक्केशगच्छीयश्रीदेवगुप्तसूरिकृतकल्पटीकायाम् , श्रीवडगच्छीयविनयचन्द्रोपाध्यायकृतकल्पनिरुक्ती, चन्द्रगच्छीयपृथिवीचन्द्रसूरिकृतकल्पटिप्पणके, तपगच्छीयकुलमण्डनसूरिकृतकल्पावचूरी, अन्याचार्यकृतकल्पान्तरवाच्ये, अञ्चलगच्छीयोदयसागरमुनिकृतकल्पलघुटीकायाम् , पार्श्वचन्द्रगच्छीयब्रह्मर्षिकृतदशाश्रतस्कन्धवृत्ती इत्यादि सर्वत्र सर्वैः श्रीवीरस्य षट् कल्याणकानि प्रकटतया प्रतिपादितानि, विशेषार्थिना अस्य प्रथमव्याख्यानात् , तथा अस्मत्कृतबृहत्पर्युषणानिर्णयाद् ज्ञेयः तथा चन्द्रप्रज्ञप्ति, सूर्यप्रज्ञप्ति-समवायाङ्ग-जम्बूद्वीपप्रज्ञप्ति-भगवती-अनुयोगद्वारादिषु आगमेषु, निशीथ-बृहत्कल्प-भाष्य-चूर्णि-वृत्ति For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 577