________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
उद्घोषणा
॥२॥
कल्पाss-वश्यक-दशवकालिकनियुक्ति-चूर्णि-बृहद्वृत्ति-स्थानाङ्गसूत्रवृत्ति-ज्योतिष्करण्डक-प्रवचनसारोद्धारादिषु च, समयावलिकामुहूर्तदिनपक्षमासवर्षयुगादिकालगणनायाम् अधिकमासस्य दिवसा गणिता एव तथा निशीथचूादौ अधिकमासस्य कालचूलाकथनेऽपि दिनगणनं कृतम् , अत एव तस्य निषेधकरणे शास्त्रपाठोत्थापकतादोषः तथा लौकिकशास्त्रेऽपि-धर्मसिन्धु-निर्णयसिन्धु-निर्णयदीपिकादौ अपि अधिकमासस्य-शयमासस्यापि दिनानि गणितानि, इति-जैन-लौकिकशास्त्रे संमतत्वाद् , अधिकमासस्य दिवसा गणनीया एव भवन्ति, तथा निशीथ-वृहकल्पभाष्य-चूर्णि-वृत्ति-पर्युषणाकल्पनियुक्ति-चूर्णि-समवायाङ्ग-स्थानाङ्गसूत्रवृत्त्यादौ जैनसिद्धान्ते पर्युषणाराधनं वर्षाकाले पञ्चाशतव दिनैः उक्तत्वात् संप्रति मासवृद्धौ अपि द्वितीयश्रावणे, प्रथमभाद्रपदे वा अधुना जैनटिप्पनकाऽभावे लौकिकट्टिप्पनकानुसारेणाऽपि कर्तव्यम् , अत्र केचिद् मासवृद्धौ अपि समवायाङ्गपाठानुसारेण पर्युषणापश्चात् , सप्ततिर्दिनानि स्थापयन्ति तन्न सत्यम् , तत्र मासवृद्ध्यऽभावाऽपेक्षया लिखितं ज्ञेयम् , तस्माद् अधिकमासस्य समागमने पश्चाद् दिवसशतं तदा न कोऽपि दोषः अस्य विशेषः निर्णयो नवमव्याख्यानात् , तथा अस्मत्कृत बृहत्पर्युषणानिर्णयप्रन्थाद् अवगन्तव्यः॥तथा व्यवहारचूर्णि-धर्मरत्नप्रकरणवृत्त्युक्तनियमात्-आगमेऽनिषिद्धा, निरवद्या, गीतार्थैः सम्मता, देशकालानुसार विशेषलाभकारिका परम्पराऽऽयाता आचरणाप्रवृत्तिर्माननीया एव भवति, तस्माद् व्याख्यानसमवे मुखाने मुखवत्रिकाबन्धनम् , तथा संयमिसाधोरभावे साध्व्याः परिषदने धर्मशास्त्रस्य व्याख्यानकरणं विशेषलामहेतुकम् , निर्जराकारणम् च, अतो शास्त्रश्रवणस्य अन्तरायभूतं न युक्तं | निषेधकरणम् , पूर्वाचार्यस्य शास्त्रस्य वा अवगणनाप्रसंगः स्यात् , तेन भवभीरुभिः जनैः न निषेधनीयम् , इति, शुभम् ।।
परमेष्ठिपिण्डैषणातत्त्वेन्दुवर्षे आषाढशुकुतृतीयागुरुवासरेऽलेखि श्रीमत्सुमतिसागरोपाध्यायशिष्याणुमुनिना मणिसागरेण, मुंबई.
N
॥२॥
For Private and Personal Use Only