________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ॐ श्रीपञ्चपरमेष्ठिभ्यो नमः ।
चतुर्दशपूर्वर- श्रुतकेवलि - आर्यश्रीभद्रबाहु खामिसमुद्धृतम्कल्पसूत्रम् । श्रीलक्ष्मीवल्लभोपाध्यायविरचितकल्पद्रुमकलिकाख्यव्याख्यया विभूषितम् ।
श्री वर्धमानस्य जिनेश्वरस्य जयन्तु सद्वाक्यसुधाप्रवाहाः । येषां श्रुतिस्पर्शनजसत्तेर्भव्या भवेयुर्विमलात्मभासः ॥ १ ॥ श्रीगौतम गणधरः प्रकटप्रभावः सल्लब्धिसिद्धिनिधिरश्चितवाक्प्रबन्धः । विघ्नान्धकारहरणे तरणिप्रकाशः साहाय्यकृद् भवतु मे जिनवी शिष्यः ॥ २ ॥ कल्पद्रुकल्पसूत्रस्य सदर्थफलहेतवे । ऋतुराजेव सद्योग्या कलिकेयं प्रकाश्यते ॥ ३ ॥
१. अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ १ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir