Book Title: Kalavati Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 3
________________ + कलावती +KGESR // श्रीजिनाय नमः // श्रीकलावतीचरित्रम् (कर्ता-श्रीशुभशीलगणी) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) पालघंति निजं शीलं / शुद्धं या ललना भुवि / कलावतीव ताः सौख्यं / प्राप्नुवंत्यपवर्गदं // 1 // तथाहि-इहैव जंबुद्धीपे मंगलाख्यदेशविभूषणे शंखपुराभिधे नगरे प्रज्ञावान् लक्ष्मीयुतः शंखाभिधो राजा राज्यं करोतिस्म. अथेकदा स राजा निजसभायां सिंहासनमलंचकार. तदा गजाभिधश्रेष्ठिनो दत्ताख्यस्तनयस्तत्रागत्य मुदा राजानं नमाम. राजापि तं कुशलोदतादि पृष्ट्वा जगी, भो दत्त ! देशांतरं भ्रमता त्वया यदि चेत् कुत्रापि किंचित् कौतुकं दृष्टं भवेत्, तन्ममाग्रे निवेदय ? तत् श्रुत्वा सहर्षों दत्तोऽवदत , हे स्वामिन् ! वाणिज्यार्थ देवशालपुरेऽहं गतो व्यापारिणः सर्वदा लक्ष्मीलाभार्थ देशांतरे एव भ्रमंति. यतः-यो न निर्गत्य निःशेषा-मालोकयति मेदिनीं // अनेकाश्चर्यसंपूणी / स नरः कूपदर्दुरः॥१॥ किंच केवलं लक्ष्म्यर्जनकपरा वयं तत्र देशांतरे न्यागान्यायविचारमपि न कुर्मः. यतः-अपलपति रहसि दत्तं / प्रत्ययदत्तेऽपि संशयं कुरुते // क्रयविक्रये च लुंटति / तथापि लोके वणिक् RRC-RAMMAR A M-GASTRak

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18