Book Title: Kalavati Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 9
________________ कलावती -ASESCr योषिता // विधीयते कंठपीठे / जलार्थ हि मृगीदृशा // 5 // जल्पंति सार्धमन्येन / पश्यंत्यन्यं सविभ्रमाः // हृदगतं चिंतयंत्यन्यं / प्रियः को नाम योषितां // 6 // एवंविधान्नारीदोषानेव विभावयन् स शंखराजा तां महासतीमपि कलावतीं त्यक्तुं निजमानसेऽचिंतयत्. एवं चिंतयन् स निजस्थाने समायातः. इतस्तस्या महासत्या अपि कलावत्या दुःखागमनं विलोक्य तद् दृष्टुमसहमान इव सूर्योऽप्यस्तं गतः. अथ परमार्थमजानता तेन क्रोधातुरेण प्रच्छन्नं मातंगयुगलमाकार्य प्रोक्तं, भवद्भ्यामियं कलावती बने त्याज्या, सांगदं तस्या हस्तयुगलं च छित्वाऽत्रागत्य मह्यं समर्पणीय. अथवा नृपादिष्टौ तौ मातंगौ तां निर्दोषामपि कलावती बने निन्यतुः, ततस्ताभ्यां तस्यै कलावत्य प्रोक्तं, हे देवि ! अवाभ्यां सम्यग् न ज्ञायते, यत्केन दोषेण राजा त्वां त्याजयति, किंच तेन भवत्याः सांगदो भुजौ छेत्तुमावाभ्यामादेशो दत्तोऽस्ति. एवं विधानि मातंगवचनानि श्रुत्वा कलावती प्रोवाच. भो मातंगौ ! अत्र विषये युवयोः पत्युश्चापि न किंचिद् दृषण, मम कर्मणामेव दृषणं. ततस्तौ मातंगो दयाहृदयावपि नृपादेशभीतौ तस्याः सांगदो भुजौ छेदयामासतुः. ततस्तो मातंगौ तस्यास्तौ सांगदो भुजौ समादायाश्रुपूर्णनयनौ निजपुरंप्रति गतो. इतोऽनंतरं सा कलावती तत्रारण्य-| शुभलक्षणोपेतं पुत्रमसूत. तदा सा कलावती तं पुत्रं प्रत्याह, भो वत्स ! यदि तव जन्म पितुर्गेहेऽभविष्यत् , तदास्मि नवसरेऽनेकवायनादपुरस्सरं तव पिता जन्मोत्सवमकरिष्यत् , अत्र तु शगालादीनां कटुकारावैस्ते जन्मोत्सवो जायमानोऽस्ति. ततो हस्तरहिता सा पंचपरमेष्टिनमस्कारं स्मृत्वा प्राह, भो शासनदेवते ! यदि मया त्रिकरणशुध्ध्या पतिव्रताधर्मः पालितो भवेत् , निर्मलं शीलं च रक्षितं भवेत् , तदा मदीयौ भुजौ पुनर्नवौ भवतां ? इति वचनानंतर HARSARKARSC i le% es वेद , निर्मल चपरमेष्टिनमस्करिष्यत् , अस यदि तयPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18