Book Title: Kalavati Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 13
________________ कलावती // 11 // // 11 // श वादपूर्वक प्रवृत्ता. तदा तेन कुलपति 40G3 न कुरु प्रियसखीवृत्तिसपाली सुधावृष्ट्या। नृपमाश्वासय दूतं // 2 // पश्चात्तापपरो भूत्वा / वहिमहाय स विशन // दिनमद्यतनं कष्टात् / / स्थापितोऽस्ति नरेश्वरः // 3 / / तत् श्रुत्वा सा कुलीना कलावती निजमानमुन्मुच्य निजभर्तुःप्रति कारुण्यं विधाय निजस्वामिपार्चे गंतुं कुलपतिमापप्रच्छ. तदा परमकारुण्यवता तस्याश्च हितमिच्छता तेन कुलपतिनाशिर्वादपूर्वकं PI प्रहिता सा कलावती सांगजा रथारूढा दत्तेन सह ततश्चलितुं प्रवृत्ता. तदा तेन कुलपतिनापि तस्यै शिक्षा दत्ता, यथा-शुश्रूषख गुरुन् कुरु प्रियसखीवृत्तिसपत्नीजने / भतुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गमः // भूयिष्ठं भव | टू दक्षिणा परिजने भाग्येष्वनुत्सेकिनी / यत्येिवं गृहिणीपदं युवतयो वामाः कुलस्याधयः // 1 // इत्यादिलब्धशिक्षा |सा तं कुलपति विनयेन नत्वा ततश्चचाल, ततः पुरः समीपे तेन दोन सह समागतां तां निजप्रियां कलावती निरी|क्ष्यातीव हृष्टः शंखनृपो महोत्सवपुरस्सरं नगरमध्ये प्रवेशयामास. ततो राजा तां निजप्रियांप्रति प्राह-निर्दोषापि तथा भद्रे / यन्मया त्वं विडंबिता / मोचिता च वने तन्मे / क्षम्यतां देवि दुष्कृतं // 1 // तत् श्रुत्वा कलावती जगी, हे स्वामिन् ! एतद्विषये न भवतां किमपि दूषणं, मम कर्मणामेव दोषोऽस्ति, यतः-सुखस्य दुःखस्य न कोऽपि दाना परो ददातीति मतिभ्रमोऽयं / / पुराकृतं कर्म तदेव भुज्यते / शरीरहेतोस्त्वरया च यत्कृतं // 1 // यजमयदेहास्ते / शलाकापुरुषा अपि // न मुच्यते विना भोगं / स्वनिकाचितकर्मणः // 2 // एवं तयाश्वासितः शंखराजा हृष्टः सन् पूर्ववत् तया सह रममाणः सुखेन राज्यं करोतिस्म. ततस्तस्याः कलावत्याः पुत्रस्य जन्ममहोत्सवं विधाय स्वप्नानुसारेण राज्ञा पुष्पकलश इत्यभिधानं चक्रे. अथैकदा कलावत्या निजस्वामिने पृष्टं, हे स्वामिन् ! त्वयाहं केन दोषेण वनमध्ये CA- % 0 - %DAE% LOG

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18