Book Title: Kalavati Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 15
________________ कलावतीका // 13 // SUCC दृष्टमस्ति, इति चिंतयन् स तदैव जातिस्मरणज्ञान प्राप. तेन स निजं पूर्वभवं सस्मार, यथा पूर्वभवे मया चारित्रं गृहीतं, तत्र च--अध्येषि सर्वशास्त्राणि / क्षयोपशमतस्ततः॥ क्रिण पुनः कृता नैव। पठनैकधिया मया // 1 // किंच वस्त्र| पुस्तकपात्रादिमूर्छितोऽहं सर्वमपि शास्त्रज्ञानं मूधैवाहारयं. एवं व्रतविराधनां विधाय. पर्यते चाऽनालोच्य विपद्यात्रैव काननेऽहं शुकराजोऽभवं. प्राग्भवाभ्यसितविद्यावशादमुग्मिन् तिर्यग्भवेऽप्यहं पंडितसमो जातोऽस्मि. अतःपरमहमेनां श्रीश्रीमंधरप्रतिमां नत्वैव सर्वदा भोजनं करिष्ये, इति स शुको निजमनसाभिग्रहं जग्राह. ततः सा सुलोचनापि तीर्थेशं नत्वा, भक्तितश्चाभ्यर्च्य सपंजरं तं शुकमादायनिजमंदिरे सखीयुता समायाता. अथ द्वितीयदिने सा राजकन्या तं शुकं पंजराबहिनिष्कास्य निजकरेधृत्वा यावद्भोक्तुमुपविष्टा तावत्स शुको निजनियमं सस्मार. ततोऽसो "नमो अरिहंताणं" इत्युक्त्वा नभोवनोड्डीय तीर्थेशं नंतु जगाम, तत्र प्रभु नत्वा स निरवद्य पत्रपुष्पफलाहाररात्मपोषणं कुर्वन विजहार. इतस्तस्य शुकस्य विरहात् सा राजकन्या विलापं कर्तु लग्ना, तदा राजभृत्यास्तं शुकं पुनर्मूहीतुमभितो धाविता.. छन्नपदपाताश्च ते राजपुरुषाः शाखिशाखानिविष्टं तं शुकं पाशेन बध्ध्वा सुलोचनाग्रे समागत्य तस्यै समर्पयामासुः. हृष्टा सा सुलोचना तं शुकं निजकरे समादाय मिष्टवचनैः कथयायाम, भो शुकराज ! जननी तुल्यां मां त्यक्त्वा त्वं कथं पलायितः ? अतः परं तव विश्वास न करण्यामि, इति वदंती सा गतिभंगाय तस्य शुकस्य द्वावपि पक्षी चिच्छेद. ततश्च सा तं पंजरे चिक्षेप. अथ स शुको निजमनसि चिंतयामास, धिग्मे पराधिनतां! | पूर्वस्मित् भवे मया साधुक्रिया सम्यग् नाराधिता, तेनात्राहमेवंविधां प्रभुदर्शनविरहरूपां पराधीनतां प्राप्तोऽस्मि. 5-11-9929

Loading...

Page Navigation
1 ... 13 14 15 16 17 18