Page #1
--------------------------------------------------------------------------
________________ LEELDELSE नाममालामाल कलावतीचरित्रम् // श्रीजिनाय नमः // AAN 455 (गद्यबद्ध) (द्वितीयावृत्तिः) % (कर्ता-श्रीशुभशीलगणी) -छपावी प्रसिद्ध करनार:पण्डित हीरालाल हंसराज-जामनगर. ទីអក្នុង TWIA (सने 1935) मुद्रकः-श्रीजैनभास्करोदय प्रिन्टिंग प्रेस. किंमत 1-0-0 (वीरसंवत् 2461) UIDAILITARAN WILWILWILWILWILI
Page #2
--------------------------------------------------------------------------
_
Page #3
--------------------------------------------------------------------------
________________ + कलावती +KGESR // श्रीजिनाय नमः // श्रीकलावतीचरित्रम् (कर्ता-श्रीशुभशीलगणी) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) पालघंति निजं शीलं / शुद्धं या ललना भुवि / कलावतीव ताः सौख्यं / प्राप्नुवंत्यपवर्गदं // 1 // तथाहि-इहैव जंबुद्धीपे मंगलाख्यदेशविभूषणे शंखपुराभिधे नगरे प्रज्ञावान् लक्ष्मीयुतः शंखाभिधो राजा राज्यं करोतिस्म. अथेकदा स राजा निजसभायां सिंहासनमलंचकार. तदा गजाभिधश्रेष्ठिनो दत्ताख्यस्तनयस्तत्रागत्य मुदा राजानं नमाम. राजापि तं कुशलोदतादि पृष्ट्वा जगी, भो दत्त ! देशांतरं भ्रमता त्वया यदि चेत् कुत्रापि किंचित् कौतुकं दृष्टं भवेत्, तन्ममाग्रे निवेदय ? तत् श्रुत्वा सहर्षों दत्तोऽवदत , हे स्वामिन् ! वाणिज्यार्थ देवशालपुरेऽहं गतो व्यापारिणः सर्वदा लक्ष्मीलाभार्थ देशांतरे एव भ्रमंति. यतः-यो न निर्गत्य निःशेषा-मालोकयति मेदिनीं // अनेकाश्चर्यसंपूणी / स नरः कूपदर्दुरः॥१॥ किंच केवलं लक्ष्म्यर्जनकपरा वयं तत्र देशांतरे न्यागान्यायविचारमपि न कुर्मः. यतः-अपलपति रहसि दत्तं / प्रत्ययदत्तेऽपि संशयं कुरुते // क्रयविक्रये च लुंटति / तथापि लोके वणिक् RRC-RAMMAR A M-GASTRak
Page #4
--------------------------------------------------------------------------
________________ Re%AECIPCO 5 साधुः // 1 // मानेन किंचित्तुलयापि किंचि-दानेन किंचिद् गृहणेन किंचित् // किंचिच्च किंचिच्च समाहरंति / प्रत्य-3 कलावती क्षचौरा वणिजो भवंति // 2 // श्रुत्वा दुर्वाक्यमुचैहसति मुषति च खोयमाप्यं च लोकं / द्वयर्ध गृह्णाति पण्यं बहु // 2 // किमिति वदन्नर्धमेव प्रदत्ते // स्वीयान्यायेऽपि पूर्व व्रजति नृपगृहं लेखके कूटकारी / मध्ये सिंहप्रतापः प्रकटमृगमुखः स्यादणिक् धूर्तराजः // 3 // एवं लक्ष्मीवृध्ध्यर्थ व्यापारं कुर्वता मया तत्र यत्कौतुकं दृष्टं, तस्य स्वरूपं कथयितुं मे जिह्वया / न पार्यते. इति वदता तेन दत्तवणिजा नृपाग्रे एकश्यित्रपटो धृतः. अथ तत्र चित्रपटे समालेखितं कस्याश्चिन्मनोहराया 8 ललनायाः स्वरूपं विलोक्य स नृपपुरंदरो मदनबाणविद्ध इव निज शिरो धुन्वंश्चेतसि चमत्कृत इति चिंतयामास, अहो नूनमियं ललना कापि देवांगनेव दश्यते, अस्यारूपनिरूपणपीयूषपानतो मे नेत्रे कथमपि तृप्तिं न गच्छतः / | केनापि भाग्यवतैव पूरुपेणेयमालिंगिता भविष्यति. इति चिंतयन् स कामविहलो जातः, यतः-विकलयति कलाकु-| शलं / हसति शुचिं पंडितं विडंबयति // अधरयति धीरपुरुषं / क्षणेन मकरध्वजो देवः // 1 // कुंकुमपंककलंकितदेहा / गौरपयोधर कंपितहारा // नूपुरहंसरणत्पदपद्मा / कं न वशं कुरुते भुविरामा // 2 // तावदेवा कृतिनामपि स्फुर-त्येष निर्भलविवेकदीपकः // यावत्र न कुरंगचक्षुषा / ताड्यते चटुललोचनांचलैः // 3 // मदिराया गुणज्येष्टा / लोकद्वयविरोधिनी // कुरुते दृष्टिमात्रेण / महिला ग्रहिलं नरं // 4 // एवं कामग्रहिलः स नृपस्तं द पप्रच्छ, भो दत्त ! किमियं चित्रगता कापि देवांगना वा मानुषी ललना विद्यते ? तत् श्रुत्वा स दत्तः सस्मेरं प्राह स्वामिन् ! इयं मानुष्येव वर्तते तत् श्रुत्वा भृशमुत्सुको राजा स्माह, भो दत्त ! तर्हि कस्य भाग्यवतोऽयं: पुत्री ? C ARE
Page #5
--------------------------------------------------------------------------
________________ % कलावती "SHAgr CEM % C कुमारी वा परिणीता? तं वृत्तातं मे द्रुतं निवेदय ? दत्तः प्राह स्वामिनियं देवशालपुरेशस्य विजयसेनभूपस्य श्रीमत्यभिधाया राज्याः कुक्षिसंभवा कलावत्याख्या कुमारिका वर्तते. सा च निजरूपलावप्यादिगुणैर्देवांगनामपि | पराजयति. विधातुराद्या सृष्टिरिव सर्वेषां पुरुषाणा मनो हरति. किंच सकलकलाकुशला सा सांप्रतं बाल्यभावमुल्लंघ्य यौवनं प्राप्तास्ति. अथ तां यौवनोपेतां विवाहयोग्यां निजपुत्रों विलोक्य तस्या मातापितरौ तद्वरविलोकनचिंतासागरे निमग्नौ. अथान्यदा तया कलावत्या निजमातुरग्रे प्रोक्तं, यो मे प्रश्नचतुष्टयों सम्यगुतरैः पूरयिष्यति, तमेवाहं परिणेष्यामि. तत् श्रुत्वा तया राज्यापि स वृत्तांतो नृपतये निवेदितः. ततो मन्त्रिभिः सह मन्त्रणां विधाय राज्ञा तस्या विवाहार्थ महताडंबरेण स्वयंवरमंडपः कारितोऽस्ति. आगामिन्यां चैत्र शुक्लैकादश्यां च तस्या विवाहार्थ शुभलग्नं निर्णीतमस्ति. इतस्तस्य नृपस्य जयसेनाख्यः सुतो दुष्टसर्पण दष्टः. मया च नृपाज्ञया विषोत्तारमणिना स कुमारो निर्विषः कृतः. तेनातीवहृष्टः स राजा वस्त्राभूषणद्रव्यदानादिभिर्मा भूरि सच्चकार. अथैकदा राजसभास्थं मां स राजेति समादिशत् , भो दत्त ! यथा त्वया जयसेनं निर्विषं विधाय मह्यमुपकारः कृतः, तथा अस्या मम | पुत्र्या योग्यवरविशोधनेन मामपि चिंतासागराडुत्तारय ? अथैवं नृपादिष्टोऽहं तस्याः कलावत्या रूपं चित्रपटे समालिख्य तत्रभवतां तदर्शनार्थमन्त्रागतोऽस्मि. इदं च मयालेखितं तस्या रूपं वर्णिकामानं वर्तते, यतस्तस्याः परिपूर्ण | समीचीनं रूपमालिखितुं देवोऽपि समर्थो नास्ति. यतः सूर्यस्य यावत्तेजो दृश्यते, तावत्तेजस्तस्य प्रतिबिंबे किं समा-18 याति ? एवं तेन दोन वणिजा संस्कृतियुतं कृतं तस्या वर्णनं श्रुत्वा कामातुरो राजा भृशं चिंतासागरे निमग्नो -00 -0 i MeEarnak .
Page #6
--------------------------------------------------------------------------
________________ AH कलावती चरित्रं // 4 // // 4 // AR** * ChDEOHIM-9- मौनमेवाश्रितः, यतः-मानो म्लायति पौरुषं विगलति क्लेशः समुन्मीलति। स्थैर्य जीर्यति धैर्यमेति विपदं गंभीरिमा भ्रस्यति बुद्धिम्यति।न प्रक्षाम्यति मजा चेतोऽधिकं ताम्यति। ब्रीडा क्लाम्यति कामिनीमदिरया मशस्य पुंसो हहा // 1 // एवं राजानं कामयाणविद्धं खिनं च विज्ञाय दत्तः प्राह-स्वामिन् मा कुरु खेदं च / चेतसि त्वं मनागपि // नूनं कला|वती सेयं / पत्नी तव भविष्यति // 1 // परमाराध्यतां देव / वागीश्वरी सुरी यथा / प्रश्नचतुष्टयस्याथ / निर्णयो ज्ञायते त्वया // 2 // ततः स श्रीशंखभूपालो ब्रह्मचर्ययुतोऽष्टमतपसा वाग्देवतां संतोषयामास. तेन तुष्टा सा प्रत्यक्षी| भूय नृपंप्रत्युवाच-भूप ते पाणिस्पृष्टाथ / शालभंज्येव तत्क्षणं // की कलावतीप्रोक्त-प्रश्नानां ध्रुवमुत्तरं // 1 // देव्यैवमुक्तः स शंखभूपालस्तां ननाम. ततः सा वाग्देव्यपि तिरोदधे. एवं कृतकृत्यः स भूपो हृष्टस्तेन दत्तेन वणिजा सह सत्वरं देवशालपुरंप्रति प्रतस्थे. अथ तं शंखभूपमागच्छतं श्रुत्वा हृष्टो विजयसेनभूपोऽपि निजपुत्रं जयसेनं तत्सन्मुख प्रेषीत्. ततो विजयसेनभूपेन महोत्सवपूर्वकं नगरमध्ये तस्य प्रवेशः कारितः. इतस्तत्र स्वयंवरमंडपेऽन्येऽपि बहवो भूपालाः कलावत्याः पाणिग्रहणाभिलाषया समायाताः, विजयसेनभूपेन सत्कृता मडपमध्ये च यथास्थानं मंचेषु समुपविष्टाः. गगनमंडले तारकेषु चंद्र इव तत्र मंडपे स्थितेषु स शंखभूपस्तेजसाऽधिकं विराजतेस्म. ततः सा कलावती सखीवृंदपरिवृता शिरसि धीयमाणातपत्रा सुखासनस्था तत्र मंडपे समाययो. ततः सा प्रतीहारीमुखात् पृथग् पृथग् समस्याचतुष्टयं नृपाणां पप्रच्छ. प्रतीहारी प्राह-को देवः (1) को गुरुः (2) किंच / तत्वं (3) सत्त्वं (4) च कीदृशं // स्फुटीकर्ताहति स्पष्टं / कलावत्या वरस्रजं // 1 // तत् प्रश्नचतुष्टयं श्रुत्वा ते सर्वेऽपि * * %
Page #7
--------------------------------------------------------------------------
________________ कलावती -%C5%9E%% भूपाला निजनिजप्रज्ञानुसारेण विविधोत्सराणि दक्षुः, परं परमाहती सा कलावती निजहृदि संतोषं न प्राप. एवं चलंती क्रमेण सख्यनुगता सा शंखनृपपार्चे समेत्य प्रतीहारीमुखात् तं तत्प्रश्नचतुष्टयं पप्रच्छ. तत् श्रुत्वा स शंखभूपालः प्राह, भो प्रतीहारि ! इयं निर्जीवापि स्तंभस्था पांचाली मदीयपाणिस्पृष्टा त्वदीयसख्याः प्रश्नचतुष्टय| समस्यां पूरयिष्यति. इत्युक्त्वा तेन खपाणिना स्पृष्टा सा निर्जीवापि काष्टपांचाली वाग्देवीमाहात्म्यतः प्रोवाच-वीतरागः परो देवो / महाव्रतधरो गुरुः // तत्त्वं जीवदया ज्ञेया। सत्त्वं चेंद्रियनिग्रहः // 1 // तत् श्रुत्वा संतुष्टमानसा सा कलावती तत्कालमेव तस्य श्रीशंखभूभर्तुः कंठे वरमालां चिक्षेप. ततस्तस्याः कलावत्याः शीलप्र| भावान्महोजसस्ते सर्वे सामर्षा अपि भूपालास्तं शंखभूपं न पराभवितुमशक्नुवन्; ततो मातापितृभ्यां महोत्सवपूर्वकं तेन शंखभूपेन सह तस्या निजतनयायाः कलावत्या विवाहो विहितः हस्तमोचनावसरे च विजयसेनभूपेन तस्मै निजजामात्रे भूरिहस्तिहयादि द्रव्यं दत्तं. ततः कियदिनानंतरं श्वशुरवर्गमुत्कलाप्य स शंखनृपः कलावत्या युतो | निजनगरंप्रति प्रतस्थे. विजयसेनभूपादेशात्स दत्तवणिगपि कलावत्या सहैव चचाल. ततश्चैकस्यंदने समारूढौ तौ ? दंपती महोत्सवेन पुरमध्य प्रविष्टौ. एवं तया कलावत्या समं विषयसुखान्यनुभवन् स भूपो भूयांसमनेहसं गमयामास. अथैकदा रात्रौ स्वममध्ये सा कलावतीराज्ञी पीयूषपूर्ण कुंभं दृष्ट्वा जागरिता तत्स्वमवृत्तांत निजभत्रै कथयामास. तत् श्रुत्वा हृष्टो भृपस्तां प्राह, हे प्रिये ! तव सकलगुणगणालंकृतस्तनयो भविष्यति. एवं शुभं गर्भ दधत्यास्तस्या अष्टमासी व्यतिक्रांता. अथ महिलायाः प्रथमा प्रसूतिः पितृगेहे भवतीति लोकनीत्या विजयसेनभूपस्तां सगी BHURRRRRRRERNAGA
Page #8
--------------------------------------------------------------------------
________________ कलावती/निजतनयामाका Her% | निजतनयामाकारयितुं निजभृत्यान् प्रेषयामास. जयसेनः कुमारोऽपि स्नेहतस्तेषां भृत्यानां हस्तैनिजभगिन्यै उपहारपदे सांशुकामंगदद्वयीमप्रेषयत्. अथ तत्रागतास्ते भृत्याः कुशलोदतनिवेदनपूर्वकं जयसेनबन्धुदत्तं सांशुकमंगदद्वयं कलावत्यै ददुः. ततस्ते नृपपार्श्व गत्वा कलावतीप्रेषणार्थ विज्ञप्तिं चक्रुः, परं राज्ञा सा न प्रेषिता, ततस्ते पश्चादलित्वा | निजनगरे समेत्य विजयसेनभूपाय तं वृत्तांतं निवेदयामासुः. अथ सा कलावती स्नेहभरेण स्वबंधुना प्रेषितमंगदरनिजहस्तयोः परिधाय प्रमोदभरमेदुरा गवाक्षस्था निजसखीभ्यः कथयामास-अहो ! येनेदमद्भुतं केयूरद्वंद्व प्रेषितं | तस्य मयि अतीवोत्कृष्टं प्रेम विलोक्यते, स सर्वदा चिरायुरेव भवतु ? प्रेम्णा प्रेषितं तेनेदं सुंदरं वस्तु मया चिरकालात्प्राप्त, तत्प्राप्तितश्चेदं मे जन्म सफलं मन्ये. एवंविधानि कलावत्या वचनानि श्रुत्वा सख्योऽप्यूचुः, हे सखि ! कुमुप्रत्यां चंद्र इव स त्वयिनूनं भुरिस्नेहं धारयति, अथ तासामेवंविधं वार्तालापं गवाक्षाघस्ताव्रजन स शंखराजाऽश| णोत्. तदा समुत्पन्नाधिकक्रोधः स नृपतिर्दध्यो-एवंविधं कलावत्यां / यथाऽकृत्यं प्रजायते // तदा विधोः समुत्पन्नांगारवृष्टिरहो ध्रुवं // 1 // अहो बुद्धिमद्भिर्जनः स्त्रीणां विश्वासो नैव कर्तव्यः, यतः-दुरितवनघनाली शोककासारपाली / भवकमलमराली पापतोयप्रणाली // विकटकपटपेटी मोहभूपालचेटी / विषयविषभूजंगी दुःखसारा कृशांगी // 1 // अनृतं साहसं माया / मूर्खत्वमतिलोभता // निःस्नेहत्वनिर्दयत्वे / स्त्रीणां दोषाः स्वभावजाः / / 2 / / आहारो | द्विगुणः स्त्रीणां / निद्रा तासां चतुर्गुणा // षड्गुणो व्यवसायश्च / कामश्चाष्टगुणः स्मृतिः // 3 // दर्शने हरते चित्त / स्पर्शने हरते बलं / / संगमे हरते वीर्य / नारी प्रत्यक्ष राक्षसी // 4 // यो मूर्ध्नि विधृतः कुंभः। पाशस्तस्यापि | %ASirs
Page #9
--------------------------------------------------------------------------
________________ कलावती -ASESCr योषिता // विधीयते कंठपीठे / जलार्थ हि मृगीदृशा // 5 // जल्पंति सार्धमन्येन / पश्यंत्यन्यं सविभ्रमाः // हृदगतं चिंतयंत्यन्यं / प्रियः को नाम योषितां // 6 // एवंविधान्नारीदोषानेव विभावयन् स शंखराजा तां महासतीमपि कलावतीं त्यक्तुं निजमानसेऽचिंतयत्. एवं चिंतयन् स निजस्थाने समायातः. इतस्तस्या महासत्या अपि कलावत्या दुःखागमनं विलोक्य तद् दृष्टुमसहमान इव सूर्योऽप्यस्तं गतः. अथ परमार्थमजानता तेन क्रोधातुरेण प्रच्छन्नं मातंगयुगलमाकार्य प्रोक्तं, भवद्भ्यामियं कलावती बने त्याज्या, सांगदं तस्या हस्तयुगलं च छित्वाऽत्रागत्य मह्यं समर्पणीय. अथवा नृपादिष्टौ तौ मातंगौ तां निर्दोषामपि कलावती बने निन्यतुः, ततस्ताभ्यां तस्यै कलावत्य प्रोक्तं, हे देवि ! अवाभ्यां सम्यग् न ज्ञायते, यत्केन दोषेण राजा त्वां त्याजयति, किंच तेन भवत्याः सांगदो भुजौ छेत्तुमावाभ्यामादेशो दत्तोऽस्ति. एवं विधानि मातंगवचनानि श्रुत्वा कलावती प्रोवाच. भो मातंगौ ! अत्र विषये युवयोः पत्युश्चापि न किंचिद् दृषण, मम कर्मणामेव दृषणं. ततस्तौ मातंगो दयाहृदयावपि नृपादेशभीतौ तस्याः सांगदो भुजौ छेदयामासतुः. ततस्तो मातंगौ तस्यास्तौ सांगदो भुजौ समादायाश्रुपूर्णनयनौ निजपुरंप्रति गतो. इतोऽनंतरं सा कलावती तत्रारण्य-| शुभलक्षणोपेतं पुत्रमसूत. तदा सा कलावती तं पुत्रं प्रत्याह, भो वत्स ! यदि तव जन्म पितुर्गेहेऽभविष्यत् , तदास्मि नवसरेऽनेकवायनादपुरस्सरं तव पिता जन्मोत्सवमकरिष्यत् , अत्र तु शगालादीनां कटुकारावैस्ते जन्मोत्सवो जायमानोऽस्ति. ततो हस्तरहिता सा पंचपरमेष्टिनमस्कारं स्मृत्वा प्राह, भो शासनदेवते ! यदि मया त्रिकरणशुध्ध्या पतिव्रताधर्मः पालितो भवेत् , निर्मलं शीलं च रक्षितं भवेत् , तदा मदीयौ भुजौ पुनर्नवौ भवतां ? इति वचनानंतर HARSARKARSC i le% es वेद , निर्मल चपरमेष्टिनमस्करिष्यत् , अस यदि तय
Page #10
--------------------------------------------------------------------------
________________ % कलावती // 8 // EC A || मेव शीलप्रभावेण तस्या भुजौ पुनः सांगदौ नवी जातो. अत्रांतरे कश्चित्तापसस्तत्राभ्येत्य तां प्राह, भो | वत्से ! प्रसूतवत्या भवत्या सांप्रतमत्र स्थातुन युज्यते. | तत् श्रुत्वा तया प्रोक्तं, भो तापसोत्तम! देवगुरुप्रसादान्मदीयशीलप्रभावाच्च न कोऽपि मां पराभवितुं समर्थो भवि |व्यति. ततस्तेन कुलपतिना तापसेन भृशमाश्वासिता पृष्टा च सा सकलं निजवृत्तांतं कथयामास. तदाकर्ण्य स तापसाधिपतिःप्राह, हे भद्रे! अथ त्वं वृथा खेदंमा कुरु ? शीलप्रभावात्तव पुनः श्रेयांसि भविष्यंति. यतः-शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं / शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावह // शीलं दुर्गतिनाशनं सुविपुलं यशः पावनं / शीलं निवृत्तुिरेव परमः शीलं तु कल्पढ़मः॥१॥ व्याघ्रन्यालजलानलादिविपदस्तेषां व्रजति क्षयं / कल्याणानि समुल्लसंति विबुधाः सान्निध्यमध्यासते // कीर्तिः स्फुतिमियति यात्युपचयं धर्मः प्रणश्यत्यघं। खनिर्वाणसुखानि संनिंदधते ये शीलमाविभ्रते // 2 // एवं तेन तापसाधिपेनाश्वास्य निजाश्रमे नीता सा कलावती तापसीसमं सुखेन तस्थौ. इतो नगरप्राप्ताभ्यां ताभ्यां मातंगाभ्यां सांगदौ कलावत्या भुजौ नृपाय दत्तो. तदा राजा तु तदंगदयुगलं जयसेननामांकितं विलोक्यातीवव्याकुलो दत्तां वणिजमाकार्य पप्रच्छ भो दत्त ! जानाति किं त्वमेतदंगदयुगलवृत्तांतं ? तत् श्रुत्वा दत्तेनोक्तं; हे खामिन ! यस्तने दिने समागतानां विजयसेनभूपभृत्यानां हस्तेन राज्या भ्रात्रा जयसेनेनेदमंगवयं निजभगिन्यै उपहारपदे प्रेषितमस्ति. तत् श्रुत्वा स शंखभूपालो वजाहत इव क्षणं मौनमाश्रितो मूर्छितश्च सिंहासनादपतत्. चंदनादिशीतलोपचारैश्च कथंचन चैतन्यं लंभितोऽसौ पश्चात्तापपरो निजवनस्ताडयनिति CARRC
Page #11
--------------------------------------------------------------------------
________________ कलावती चरित्रं // 9 // // 9 // | विलापं चकार-अहो मे मूढचारित्व-महो मे मंदभाग्यता / / अहो मे निर्विचारित्व-महो मम कुशीलता॥१॥ किमेतदित्यसौ पृष्टो। विलपन्निति मंत्रिभिः॥ सलग्नं सानुतापं च वृत्तांतं निखिल जगौ ॥२॥क यामि किमु वा वच्मि / क विशामि करोमि का // आत्मनैव मयात्मासो। हंत कष्ट निपातितः॥३॥ अरेरे! तस्यां निर्दोषायामपि मया दोषसंभावना कृता! अविचार्यैव साहसं विधाय मयैतदकार्यमाचरितं, यतः-सगुणमपगुणं वा कुर्वता कार्यमादौ / परिणतिरवधार्या यत्नतः पंडितेन // अतिरभ सकृतानां कर्मणामाविपरी-भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥ अरेरे! मया मौढयेन निर्दोषापि प्रिया त्यक्ता, तस्या भुजावपि छेदितो, अथाहं जनानां पुरःखास्यं कथं दशयिष्ये? अतोऽहं वह्निज्वलच्चितायामात्मघातमेव करिष्यामि. तत् श्रुत्वाऽमात्यादयः प्रचुः, हे खामिन् ! अथ पश्चात्तापेनालं, यता-एका तावन्मृता | देवी। केनापि निजकर्मणा / / अथात्महत्यां कर्तुं च / नोचिता सर्वथा तव // 1 // अतो भो विवेकिन ! त्वमात्महत्याकदा | ग्रहं मुंच? यतः-जीवन भद्राण्यवामोति / जीवन् पुण्यं करोति च // मृतस्य देहनाशः स्या-धर्माद्युपरमस्तथा // 1 // पौरा | मात्यादीना मित्यादियुक्तियुक्तवचांस्यप्यनादृत्य मोहमूढोऽयं शंखनृप आत्मघातार्थ वेगादरण्ये गंतुंलग्नः.तदास समयज्ञो | | दत्तो वणिक् कालक्षेपविधानार्थ मधुराक्षरस्तं शंखधरणीधवं प्राह, हे स्वामिन् ! प्रथमं यूयं जिनेश्वरप्रभोः पूजां कुरुन? यथा युष्माकं सर्वा आपदः स्वयमेव विलयं यास्यंति. एवंविधानि दत्तवचनानि स्वीकृत्य स शराजा प्रथम श्रीतार्थ| कर पूजयितुं जिनप्रासादे गतः, तत्र प्रभुप्रतिमा पूजयित्वोपाश्रये स्थितस्य श्रीअमिततेजोऽभिधमुनिवरस्य पार्श्वे वंदनार्थ 8 गतः, मुनिनापि तं योग्य विज्ञाय धर्मोपदेशो दत्तः, यथा-जीवाः संसारकांतारे। पूर्वकर्मवशेरिताः मृगा इव सदा SHRIRCRI-RIES
Page #12
--------------------------------------------------------------------------
________________ 4% कलावती चरित्रं // 10 // // 10 // AC% E मुग्धा / भ्राम्यंति मोहिता ध्रुवं // 1 // सुखं सुखमिति भ्रांत्या / गता दुःखं पदे पदे // जीवाःक्लिश्यति संसारे। वातोधूतपलाशवत् // 2 // कल्पद्वमिव संप्राप्य / दुर्लभं मानुषं भवं / जैनो धर्मः सदा सेव्यः / परत्रेह च शर्मदः | // 3 // एवंविधां धर्मदेशनां मुनिमुखानिशम्य किंचिद् व्यपगतशोकः स नृपो निशायामपि तत्रैवोपाश्रये शेतेस्म. ततो निशांते स चेत्थं स्वममलोकत-अपक्वैकफला वल्लिः / पतिता कल्पपादपात् // आरुरोह पुनः पूर्ण-फला सा | तत्र तत्क्षणं // 1 // एवं स्वप्नदर्शनानंतरं जागरितो नृपो गुरुं प्रणम्य तत्स्वप्नार्थ पप्रच्छ. गुरुराह, हे राजन् ! स स्वप्नस्तव शुभफलदायको भविष्यति, कल्पवृक्षसमानाद्भवतः पार्थाद्वियोगं प्राप्ता कल्पवल्लीतुल्या सा कलावती राज्ञी, पुनः सपदि सपुत्रा त्वां मिलिष्यति. तत् श्रुत्वा हृष्टः स नृपो निजावासे समायातः, कलावत्या राज्या गवेषणार्थ च | वनमध्ये निजभृत्यान प्रेषयामास. भूपप्रेषितः स दत्तवणिगपि बनाइनं परिभ्रमन्नेकदा दैवयोगात्तमेव तापसाश्रमम| द्राक्षीत. तत्र गत्वा स दत्तस्तापसकुमारमेकं कलावत्या वृत्तांतं पप्रच्छ. तत् श्रुत्वा स तापसकुमारो दत्तं प्राह, हे भद्र ! | तस्यास्तव किं प्रयोजनमस्ति ? दोनोक्तं सा शंखनृपस्य राज्ञी वर्तते, तस्या विरहेण च राजा निजदेहत्यागायोद्यतो जातोऽस्ति. तदा तेन तापसकुमारेणोक्तं, भो भद्र ! कितचिदिनेभ्यः प्रागका सपुत्रा महिला समायातास्ति, यदि ते प्रयोजनं तदाश्रममध्ये गत्वा विलोकय. इति तेन प्रोक्तो दत्त आश्रममध्ये ययौ, तदा दूरादेव तं दत्तं वणिजमागच्छंतं विलोक्य जागृच्छोका सा कलावती विविधविलापे रुदनं कर्तु लग्ना. दत्तः प्राह स्वसस्तवं मा। रोदीः कर्मफलं ह्यदः / / अभुक्त्वा प्राग्भवोपा / न मुच्यते जिना अपि // 1 // तद्विवेकिनि धीरत्व-माधाय रथमारुह // स्वदर्शन CiRACCO-COM-%CC 0 %AA%
Page #13
--------------------------------------------------------------------------
________________ कलावती // 11 // // 11 // श वादपूर्वक प्रवृत्ता. तदा तेन कुलपति 40G3 न कुरु प्रियसखीवृत्तिसपाली सुधावृष्ट्या। नृपमाश्वासय दूतं // 2 // पश्चात्तापपरो भूत्वा / वहिमहाय स विशन // दिनमद्यतनं कष्टात् / / स्थापितोऽस्ति नरेश्वरः // 3 / / तत् श्रुत्वा सा कुलीना कलावती निजमानमुन्मुच्य निजभर्तुःप्रति कारुण्यं विधाय निजस्वामिपार्चे गंतुं कुलपतिमापप्रच्छ. तदा परमकारुण्यवता तस्याश्च हितमिच्छता तेन कुलपतिनाशिर्वादपूर्वकं PI प्रहिता सा कलावती सांगजा रथारूढा दत्तेन सह ततश्चलितुं प्रवृत्ता. तदा तेन कुलपतिनापि तस्यै शिक्षा दत्ता, यथा-शुश्रूषख गुरुन् कुरु प्रियसखीवृत्तिसपत्नीजने / भतुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गमः // भूयिष्ठं भव | टू दक्षिणा परिजने भाग्येष्वनुत्सेकिनी / यत्येिवं गृहिणीपदं युवतयो वामाः कुलस्याधयः // 1 // इत्यादिलब्धशिक्षा |सा तं कुलपति विनयेन नत्वा ततश्चचाल, ततः पुरः समीपे तेन दोन सह समागतां तां निजप्रियां कलावती निरी|क्ष्यातीव हृष्टः शंखनृपो महोत्सवपुरस्सरं नगरमध्ये प्रवेशयामास. ततो राजा तां निजप्रियांप्रति प्राह-निर्दोषापि तथा भद्रे / यन्मया त्वं विडंबिता / मोचिता च वने तन्मे / क्षम्यतां देवि दुष्कृतं // 1 // तत् श्रुत्वा कलावती जगी, हे स्वामिन् ! एतद्विषये न भवतां किमपि दूषणं, मम कर्मणामेव दोषोऽस्ति, यतः-सुखस्य दुःखस्य न कोऽपि दाना परो ददातीति मतिभ्रमोऽयं / / पुराकृतं कर्म तदेव भुज्यते / शरीरहेतोस्त्वरया च यत्कृतं // 1 // यजमयदेहास्ते / शलाकापुरुषा अपि // न मुच्यते विना भोगं / स्वनिकाचितकर्मणः // 2 // एवं तयाश्वासितः शंखराजा हृष्टः सन् पूर्ववत् तया सह रममाणः सुखेन राज्यं करोतिस्म. ततस्तस्याः कलावत्याः पुत्रस्य जन्ममहोत्सवं विधाय स्वप्नानुसारेण राज्ञा पुष्पकलश इत्यभिधानं चक्रे. अथैकदा कलावत्या निजस्वामिने पृष्टं, हे स्वामिन् ! त्वयाहं केन दोषेण वनमध्ये CA- % 0 - %DAE% LOG
Page #14
--------------------------------------------------------------------------
________________ कलावती चरित्रं // 12 // // 12 // ** *-* - | त्याजिता, तत् श्रुत्वा सलज्जो राजा निखिलं तवृत्तांतं जगौ. तदनंतरं राज्ञा तस्यै प्रोक्तं, हे प्रिये ! अधुनाऽत्रोद्यानेऽमिततेजोऽभिधो ज्ञानी मुनिः समागतोऽस्ति, तस्य पार्श्वे गत्वा तव प्राग्भवस्वरूपं पृच्छयते, इत्युक्त्वा तया कलावत्या 8 सहितो राजा मुनेर्वदनार्थ नगरोद्याने ययौ. तत्र तं महामुनि नत्वा धर्मोपदेशश्रवणानंतरं राजा पप्रच्छ, हे भगवन् ! अनया कलावत्या पूर्वभवे किं दुष्कर्म कृतं ? येन मया तस्या निर्दोषाया अपि भुजा छेदितौ ! तत् श्रुत्वा मुनिगहश्रीमद्विदेहोर्ध्या श्रीमहेंद्राख्यं पुरं वर्तते, तत्र नरविक्रमामिधो राजा राज्यं करोतिस्म. तस्य सकलगुणगणालंकृता लीलावत्यभिधाना राज्ञी यभूव. अन्यदा तया राज्या सुलक्षणा पुत्री प्रसूता. राज्ञा महोत्सवपूर्वकं तस्याः सुलोचनेति नाम विहितं..क्रमेण यौवनं प्राप्ता सा माता पित्रोः पामप्रेमपात्रं जाता. अथैकदा सभास्थितत्य तस्य राज्ञः केनाप्येकः कीर उपदीकृतः स पाठितः कीरो नृपायाशीर्वाद ददा, यथा-स्फुरद्वैरितमोध्वंसी / राज्यतेजोऽभिवर्धकः // भाति प्रतापभानुस्ते / राजन् विश्वावभासकः // 1 // तत् श्रुत्वा प्रीतेन राज्ञा तस्मै नराय यहुद्रव्यदानं दत्वा स कीरोत्तमो निजपुत्र्यै सुलोचनायै दत्तः, हृष्टा सुलोचनापि तं कीरं स्वर्णपंजरे रक्षयामास, सर्वदां च दाडिमद्राक्षादिस्वादुफलैः प्रमोदभरेण सा तं कीरं पोषयामास, मुहुर्मुहुश्च तं कीरं करस्थं हृदयमस्थकस्थं च पजरस्थं विधाय यहनि सूक्तानि पाठयंती सा स्वात्मानं विनोदयतिस्म. भोजनादिसमयेऽपि सा तं कीरं निजपाचे एव स्थापयति एवं सा मनागपि / तस्य विरहं न सहते. अथैकदा सा सुलोचना निजसखी गणोपेता तं शुकं समादाय बनमध्ये क्रिडार्थ ययो. तत्र // श्रीसीमंधरप्रासादे श्रीवीतरागप्रभुप्रतिमां दृष्ट्वा स शुको निजहृदील्यचिंतयत्, अहो ! एवंविधं जिनपिवं मया पूर्व कापि *
Page #15
--------------------------------------------------------------------------
________________ कलावतीका // 13 // SUCC दृष्टमस्ति, इति चिंतयन् स तदैव जातिस्मरणज्ञान प्राप. तेन स निजं पूर्वभवं सस्मार, यथा पूर्वभवे मया चारित्रं गृहीतं, तत्र च--अध्येषि सर्वशास्त्राणि / क्षयोपशमतस्ततः॥ क्रिण पुनः कृता नैव। पठनैकधिया मया // 1 // किंच वस्त्र| पुस्तकपात्रादिमूर्छितोऽहं सर्वमपि शास्त्रज्ञानं मूधैवाहारयं. एवं व्रतविराधनां विधाय. पर्यते चाऽनालोच्य विपद्यात्रैव काननेऽहं शुकराजोऽभवं. प्राग्भवाभ्यसितविद्यावशादमुग्मिन् तिर्यग्भवेऽप्यहं पंडितसमो जातोऽस्मि. अतःपरमहमेनां श्रीश्रीमंधरप्रतिमां नत्वैव सर्वदा भोजनं करिष्ये, इति स शुको निजमनसाभिग्रहं जग्राह. ततः सा सुलोचनापि तीर्थेशं नत्वा, भक्तितश्चाभ्यर्च्य सपंजरं तं शुकमादायनिजमंदिरे सखीयुता समायाता. अथ द्वितीयदिने सा राजकन्या तं शुकं पंजराबहिनिष्कास्य निजकरेधृत्वा यावद्भोक्तुमुपविष्टा तावत्स शुको निजनियमं सस्मार. ततोऽसो "नमो अरिहंताणं" इत्युक्त्वा नभोवनोड्डीय तीर्थेशं नंतु जगाम, तत्र प्रभु नत्वा स निरवद्य पत्रपुष्पफलाहाररात्मपोषणं कुर्वन विजहार. इतस्तस्य शुकस्य विरहात् सा राजकन्या विलापं कर्तु लग्ना, तदा राजभृत्यास्तं शुकं पुनर्मूहीतुमभितो धाविता.. छन्नपदपाताश्च ते राजपुरुषाः शाखिशाखानिविष्टं तं शुकं पाशेन बध्ध्वा सुलोचनाग्रे समागत्य तस्यै समर्पयामासुः. हृष्टा सा सुलोचना तं शुकं निजकरे समादाय मिष्टवचनैः कथयायाम, भो शुकराज ! जननी तुल्यां मां त्यक्त्वा त्वं कथं पलायितः ? अतः परं तव विश्वास न करण्यामि, इति वदंती सा गतिभंगाय तस्य शुकस्य द्वावपि पक्षी चिच्छेद. ततश्च सा तं पंजरे चिक्षेप. अथ स शुको निजमनसि चिंतयामास, धिग्मे पराधिनतां! | पूर्वस्मित् भवे मया साधुक्रिया सम्यग् नाराधिता, तेनात्राहमेवंविधां प्रभुदर्शनविरहरूपां पराधीनतां प्राप्तोऽस्मि. 5-11-9929
Page #16
--------------------------------------------------------------------------
________________ कलावती | अथैवं पराधीनोऽहं तिर्यक्त्वेऽपि निजात्महितं करोमि. इति विचित्य तदादितोऽसावनशनं चकार. सुलोचनया मिष्टवचनादिभिबहूल्लापितोऽपि स मनागप्याहारपानीयं न जग्राह. कितिचिदिनांतरे स शुको मृत्वा शुभध्यानात्सौधर्म | देवलोके महर्धिकः सुरोऽभृत्, सुलोचनापि तस्य विरहदुःखादनशनपूर्वकं मृत्वा सौधर्म देवलोके तस्यैव देवस्य प्रेमपात्रं देवीरूपा प्रियाभूत. तत्र च ताभ्यां दंपतीभ्यां भूरिसौख्यमनुभूतं. अथ स शुकजीवो देव आयुः | क्षये ततश्च्युत्वा हे राजन् ! त्वं शंखनामा भूपो जातः, सुलोचनाजीवश्च ततश्च्युत्वैषा तव प्रिया कलावत्यभवत्. प्राग्भवे कलावल्या तस्य शुकस्य यत्पक्षौ छिन्नौ, तत्कर्मणो विपाकेनात्र भवे त्वया तस्या हस्तौ छेदितो, यतः-सर्वस्य कर्मणोऽवश्यं / शुभस्याप्यशुभस्य वा // एकधा बहुधा चैव विपाकः परिपच्यते // 1 // एवं निजपूर्वभववृत्तांतं श्रुत्वा तो दंपती अपि जातिस्मरणज्ञानमवापतुः. ततश्च स शंखराजा निजपुत्रं पुष्पकलश राज्ये संस्थाप्य वैराग्यतः कलावत्या सह चारित्रं जग्राह. शुद्धं चरित्रपालयित्वा तौ द्वावपि निजायुःक्षये स्वर्ग गतो. ततश्च्युत्वा च मनुष्यभवं प्राप्य लब्धचारित्रौ केवलज्ञानमवाप्य मुक्तिं गमिष्यतः // इति श्रीकलावतीमहासतीचरित्रं समाप्त // श्रीरस्तु // आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारों करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने - माटे पोताना श्रीजैनभास्करोदय प्रेसमा छापीने प्रसिद्ध कर्य. ॥समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् //
Page #17
--------------------------------------------------------------------------
_
Page #18
--------------------------------------------------------------------------
________________ OIICICCIONONOGIONICONCISICIONC さきいさつできりきりきりまでできりきりでいきいきしまいまいまいさつできりまでできりきりまでまでまでまでまいりまでまでまでまで MJ001 इति श्रीकलावतीचरित्रं समाप्तम् SIISHOISISIIS さらにはははははははははははwww は FORDPRESS eeeeeはははははははははOPTIONE poOOOOOOOOOOOOOOO19