________________ AH कलावती चरित्रं // 4 // // 4 // AR** * ChDEOHIM-9- मौनमेवाश्रितः, यतः-मानो म्लायति पौरुषं विगलति क्लेशः समुन्मीलति। स्थैर्य जीर्यति धैर्यमेति विपदं गंभीरिमा भ्रस्यति बुद्धिम्यति।न प्रक्षाम्यति मजा चेतोऽधिकं ताम्यति। ब्रीडा क्लाम्यति कामिनीमदिरया मशस्य पुंसो हहा // 1 // एवं राजानं कामयाणविद्धं खिनं च विज्ञाय दत्तः प्राह-स्वामिन् मा कुरु खेदं च / चेतसि त्वं मनागपि // नूनं कला|वती सेयं / पत्नी तव भविष्यति // 1 // परमाराध्यतां देव / वागीश्वरी सुरी यथा / प्रश्नचतुष्टयस्याथ / निर्णयो ज्ञायते त्वया // 2 // ततः स श्रीशंखभूपालो ब्रह्मचर्ययुतोऽष्टमतपसा वाग्देवतां संतोषयामास. तेन तुष्टा सा प्रत्यक्षी| भूय नृपंप्रत्युवाच-भूप ते पाणिस्पृष्टाथ / शालभंज्येव तत्क्षणं // की कलावतीप्रोक्त-प्रश्नानां ध्रुवमुत्तरं // 1 // देव्यैवमुक्तः स शंखभूपालस्तां ननाम. ततः सा वाग्देव्यपि तिरोदधे. एवं कृतकृत्यः स भूपो हृष्टस्तेन दत्तेन वणिजा सह सत्वरं देवशालपुरंप्रति प्रतस्थे. अथ तं शंखभूपमागच्छतं श्रुत्वा हृष्टो विजयसेनभूपोऽपि निजपुत्रं जयसेनं तत्सन्मुख प्रेषीत्. ततो विजयसेनभूपेन महोत्सवपूर्वकं नगरमध्ये तस्य प्रवेशः कारितः. इतस्तत्र स्वयंवरमंडपेऽन्येऽपि बहवो भूपालाः कलावत्याः पाणिग्रहणाभिलाषया समायाताः, विजयसेनभूपेन सत्कृता मडपमध्ये च यथास्थानं मंचेषु समुपविष्टाः. गगनमंडले तारकेषु चंद्र इव तत्र मंडपे स्थितेषु स शंखभूपस्तेजसाऽधिकं विराजतेस्म. ततः सा कलावती सखीवृंदपरिवृता शिरसि धीयमाणातपत्रा सुखासनस्था तत्र मंडपे समाययो. ततः सा प्रतीहारीमुखात् पृथग् पृथग् समस्याचतुष्टयं नृपाणां पप्रच्छ. प्रतीहारी प्राह-को देवः (1) को गुरुः (2) किंच / तत्वं (3) सत्त्वं (4) च कीदृशं // स्फुटीकर्ताहति स्पष्टं / कलावत्या वरस्रजं // 1 // तत् प्रश्नचतुष्टयं श्रुत्वा ते सर्वेऽपि * * %