________________ कलावती -%C5%9E%% भूपाला निजनिजप्रज्ञानुसारेण विविधोत्सराणि दक्षुः, परं परमाहती सा कलावती निजहृदि संतोषं न प्राप. एवं चलंती क्रमेण सख्यनुगता सा शंखनृपपार्चे समेत्य प्रतीहारीमुखात् तं तत्प्रश्नचतुष्टयं पप्रच्छ. तत् श्रुत्वा स शंखभूपालः प्राह, भो प्रतीहारि ! इयं निर्जीवापि स्तंभस्था पांचाली मदीयपाणिस्पृष्टा त्वदीयसख्याः प्रश्नचतुष्टय| समस्यां पूरयिष्यति. इत्युक्त्वा तेन खपाणिना स्पृष्टा सा निर्जीवापि काष्टपांचाली वाग्देवीमाहात्म्यतः प्रोवाच-वीतरागः परो देवो / महाव्रतधरो गुरुः // तत्त्वं जीवदया ज्ञेया। सत्त्वं चेंद्रियनिग्रहः // 1 // तत् श्रुत्वा संतुष्टमानसा सा कलावती तत्कालमेव तस्य श्रीशंखभूभर्तुः कंठे वरमालां चिक्षेप. ततस्तस्याः कलावत्याः शीलप्र| भावान्महोजसस्ते सर्वे सामर्षा अपि भूपालास्तं शंखभूपं न पराभवितुमशक्नुवन्; ततो मातापितृभ्यां महोत्सवपूर्वकं तेन शंखभूपेन सह तस्या निजतनयायाः कलावत्या विवाहो विहितः हस्तमोचनावसरे च विजयसेनभूपेन तस्मै निजजामात्रे भूरिहस्तिहयादि द्रव्यं दत्तं. ततः कियदिनानंतरं श्वशुरवर्गमुत्कलाप्य स शंखनृपः कलावत्या युतो | निजनगरंप्रति प्रतस्थे. विजयसेनभूपादेशात्स दत्तवणिगपि कलावत्या सहैव चचाल. ततश्चैकस्यंदने समारूढौ तौ ? दंपती महोत्सवेन पुरमध्य प्रविष्टौ. एवं तया कलावत्या समं विषयसुखान्यनुभवन् स भूपो भूयांसमनेहसं गमयामास. अथैकदा रात्रौ स्वममध्ये सा कलावतीराज्ञी पीयूषपूर्ण कुंभं दृष्ट्वा जागरिता तत्स्वमवृत्तांत निजभत्रै कथयामास. तत् श्रुत्वा हृष्टो भृपस्तां प्राह, हे प्रिये ! तव सकलगुणगणालंकृतस्तनयो भविष्यति. एवं शुभं गर्भ दधत्यास्तस्या अष्टमासी व्यतिक्रांता. अथ महिलायाः प्रथमा प्रसूतिः पितृगेहे भवतीति लोकनीत्या विजयसेनभूपस्तां सगी BHURRRRRRRERNAGA