SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ % कलावती "SHAgr CEM % C कुमारी वा परिणीता? तं वृत्तातं मे द्रुतं निवेदय ? दत्तः प्राह स्वामिनियं देवशालपुरेशस्य विजयसेनभूपस्य श्रीमत्यभिधाया राज्याः कुक्षिसंभवा कलावत्याख्या कुमारिका वर्तते. सा च निजरूपलावप्यादिगुणैर्देवांगनामपि | पराजयति. विधातुराद्या सृष्टिरिव सर्वेषां पुरुषाणा मनो हरति. किंच सकलकलाकुशला सा सांप्रतं बाल्यभावमुल्लंघ्य यौवनं प्राप्तास्ति. अथ तां यौवनोपेतां विवाहयोग्यां निजपुत्रों विलोक्य तस्या मातापितरौ तद्वरविलोकनचिंतासागरे निमग्नौ. अथान्यदा तया कलावत्या निजमातुरग्रे प्रोक्तं, यो मे प्रश्नचतुष्टयों सम्यगुतरैः पूरयिष्यति, तमेवाहं परिणेष्यामि. तत् श्रुत्वा तया राज्यापि स वृत्तांतो नृपतये निवेदितः. ततो मन्त्रिभिः सह मन्त्रणां विधाय राज्ञा तस्या विवाहार्थ महताडंबरेण स्वयंवरमंडपः कारितोऽस्ति. आगामिन्यां चैत्र शुक्लैकादश्यां च तस्या विवाहार्थ शुभलग्नं निर्णीतमस्ति. इतस्तस्य नृपस्य जयसेनाख्यः सुतो दुष्टसर्पण दष्टः. मया च नृपाज्ञया विषोत्तारमणिना स कुमारो निर्विषः कृतः. तेनातीवहृष्टः स राजा वस्त्राभूषणद्रव्यदानादिभिर्मा भूरि सच्चकार. अथैकदा राजसभास्थं मां स राजेति समादिशत् , भो दत्त ! यथा त्वया जयसेनं निर्विषं विधाय मह्यमुपकारः कृतः, तथा अस्या मम | पुत्र्या योग्यवरविशोधनेन मामपि चिंतासागराडुत्तारय ? अथैवं नृपादिष्टोऽहं तस्याः कलावत्या रूपं चित्रपटे समालिख्य तत्रभवतां तदर्शनार्थमन्त्रागतोऽस्मि. इदं च मयालेखितं तस्या रूपं वर्णिकामानं वर्तते, यतस्तस्याः परिपूर्ण | समीचीनं रूपमालिखितुं देवोऽपि समर्थो नास्ति. यतः सूर्यस्य यावत्तेजो दृश्यते, तावत्तेजस्तस्य प्रतिबिंबे किं समा-18 याति ? एवं तेन दोन वणिजा संस्कृतियुतं कृतं तस्या वर्णनं श्रुत्वा कामातुरो राजा भृशं चिंतासागरे निमग्नो -00 -0 i MeEarnak .
SR No.600406
Book TitleKalavati Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1935
Total Pages18
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy