________________ 4% कलावती चरित्रं // 10 // // 10 // AC% E मुग्धा / भ्राम्यंति मोहिता ध्रुवं // 1 // सुखं सुखमिति भ्रांत्या / गता दुःखं पदे पदे // जीवाःक्लिश्यति संसारे। वातोधूतपलाशवत् // 2 // कल्पद्वमिव संप्राप्य / दुर्लभं मानुषं भवं / जैनो धर्मः सदा सेव्यः / परत्रेह च शर्मदः | // 3 // एवंविधां धर्मदेशनां मुनिमुखानिशम्य किंचिद् व्यपगतशोकः स नृपो निशायामपि तत्रैवोपाश्रये शेतेस्म. ततो निशांते स चेत्थं स्वममलोकत-अपक्वैकफला वल्लिः / पतिता कल्पपादपात् // आरुरोह पुनः पूर्ण-फला सा | तत्र तत्क्षणं // 1 // एवं स्वप्नदर्शनानंतरं जागरितो नृपो गुरुं प्रणम्य तत्स्वप्नार्थ पप्रच्छ. गुरुराह, हे राजन् ! स स्वप्नस्तव शुभफलदायको भविष्यति, कल्पवृक्षसमानाद्भवतः पार्थाद्वियोगं प्राप्ता कल्पवल्लीतुल्या सा कलावती राज्ञी, पुनः सपदि सपुत्रा त्वां मिलिष्यति. तत् श्रुत्वा हृष्टः स नृपो निजावासे समायातः, कलावत्या राज्या गवेषणार्थ च | वनमध्ये निजभृत्यान प्रेषयामास. भूपप्रेषितः स दत्तवणिगपि बनाइनं परिभ्रमन्नेकदा दैवयोगात्तमेव तापसाश्रमम| द्राक्षीत. तत्र गत्वा स दत्तस्तापसकुमारमेकं कलावत्या वृत्तांतं पप्रच्छ. तत् श्रुत्वा स तापसकुमारो दत्तं प्राह, हे भद्र ! | तस्यास्तव किं प्रयोजनमस्ति ? दोनोक्तं सा शंखनृपस्य राज्ञी वर्तते, तस्या विरहेण च राजा निजदेहत्यागायोद्यतो जातोऽस्ति. तदा तेन तापसकुमारेणोक्तं, भो भद्र ! कितचिदिनेभ्यः प्रागका सपुत्रा महिला समायातास्ति, यदि ते प्रयोजनं तदाश्रममध्ये गत्वा विलोकय. इति तेन प्रोक्तो दत्त आश्रममध्ये ययौ, तदा दूरादेव तं दत्तं वणिजमागच्छंतं विलोक्य जागृच्छोका सा कलावती विविधविलापे रुदनं कर्तु लग्ना. दत्तः प्राह स्वसस्तवं मा। रोदीः कर्मफलं ह्यदः / / अभुक्त्वा प्राग्भवोपा / न मुच्यते जिना अपि // 1 // तद्विवेकिनि धीरत्व-माधाय रथमारुह // स्वदर्शन CiRACCO-COM-%CC 0 %AA%