________________ कलावती चरित्रं // 12 // // 12 // ** *-* - | त्याजिता, तत् श्रुत्वा सलज्जो राजा निखिलं तवृत्तांतं जगौ. तदनंतरं राज्ञा तस्यै प्रोक्तं, हे प्रिये ! अधुनाऽत्रोद्यानेऽमिततेजोऽभिधो ज्ञानी मुनिः समागतोऽस्ति, तस्य पार्श्वे गत्वा तव प्राग्भवस्वरूपं पृच्छयते, इत्युक्त्वा तया कलावत्या 8 सहितो राजा मुनेर्वदनार्थ नगरोद्याने ययौ. तत्र तं महामुनि नत्वा धर्मोपदेशश्रवणानंतरं राजा पप्रच्छ, हे भगवन् ! अनया कलावत्या पूर्वभवे किं दुष्कर्म कृतं ? येन मया तस्या निर्दोषाया अपि भुजा छेदितौ ! तत् श्रुत्वा मुनिगहश्रीमद्विदेहोर्ध्या श्रीमहेंद्राख्यं पुरं वर्तते, तत्र नरविक्रमामिधो राजा राज्यं करोतिस्म. तस्य सकलगुणगणालंकृता लीलावत्यभिधाना राज्ञी यभूव. अन्यदा तया राज्या सुलक्षणा पुत्री प्रसूता. राज्ञा महोत्सवपूर्वकं तस्याः सुलोचनेति नाम विहितं..क्रमेण यौवनं प्राप्ता सा माता पित्रोः पामप्रेमपात्रं जाता. अथैकदा सभास्थितत्य तस्य राज्ञः केनाप्येकः कीर उपदीकृतः स पाठितः कीरो नृपायाशीर्वाद ददा, यथा-स्फुरद्वैरितमोध्वंसी / राज्यतेजोऽभिवर्धकः // भाति प्रतापभानुस्ते / राजन् विश्वावभासकः // 1 // तत् श्रुत्वा प्रीतेन राज्ञा तस्मै नराय यहुद्रव्यदानं दत्वा स कीरोत्तमो निजपुत्र्यै सुलोचनायै दत्तः, हृष्टा सुलोचनापि तं कीरं स्वर्णपंजरे रक्षयामास, सर्वदां च दाडिमद्राक्षादिस्वादुफलैः प्रमोदभरेण सा तं कीरं पोषयामास, मुहुर्मुहुश्च तं कीरं करस्थं हृदयमस्थकस्थं च पजरस्थं विधाय यहनि सूक्तानि पाठयंती सा स्वात्मानं विनोदयतिस्म. भोजनादिसमयेऽपि सा तं कीरं निजपाचे एव स्थापयति एवं सा मनागपि / तस्य विरहं न सहते. अथैकदा सा सुलोचना निजसखी गणोपेता तं शुकं समादाय बनमध्ये क्रिडार्थ ययो. तत्र // श्रीसीमंधरप्रासादे श्रीवीतरागप्रभुप्रतिमां दृष्ट्वा स शुको निजहृदील्यचिंतयत्, अहो ! एवंविधं जिनपिवं मया पूर्व कापि *