Book Title: Kalavati Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 16
________________ कलावती | अथैवं पराधीनोऽहं तिर्यक्त्वेऽपि निजात्महितं करोमि. इति विचित्य तदादितोऽसावनशनं चकार. सुलोचनया मिष्टवचनादिभिबहूल्लापितोऽपि स मनागप्याहारपानीयं न जग्राह. कितिचिदिनांतरे स शुको मृत्वा शुभध्यानात्सौधर्म | देवलोके महर्धिकः सुरोऽभृत्, सुलोचनापि तस्य विरहदुःखादनशनपूर्वकं मृत्वा सौधर्म देवलोके तस्यैव देवस्य प्रेमपात्रं देवीरूपा प्रियाभूत. तत्र च ताभ्यां दंपतीभ्यां भूरिसौख्यमनुभूतं. अथ स शुकजीवो देव आयुः | क्षये ततश्च्युत्वा हे राजन् ! त्वं शंखनामा भूपो जातः, सुलोचनाजीवश्च ततश्च्युत्वैषा तव प्रिया कलावत्यभवत्. प्राग्भवे कलावल्या तस्य शुकस्य यत्पक्षौ छिन्नौ, तत्कर्मणो विपाकेनात्र भवे त्वया तस्या हस्तौ छेदितो, यतः-सर्वस्य कर्मणोऽवश्यं / शुभस्याप्यशुभस्य वा // एकधा बहुधा चैव विपाकः परिपच्यते // 1 // एवं निजपूर्वभववृत्तांतं श्रुत्वा तो दंपती अपि जातिस्मरणज्ञानमवापतुः. ततश्च स शंखराजा निजपुत्रं पुष्पकलश राज्ये संस्थाप्य वैराग्यतः कलावत्या सह चारित्रं जग्राह. शुद्धं चरित्रपालयित्वा तौ द्वावपि निजायुःक्षये स्वर्ग गतो. ततश्च्युत्वा च मनुष्यभवं प्राप्य लब्धचारित्रौ केवलज्ञानमवाप्य मुक्तिं गमिष्यतः // इति श्रीकलावतीमहासतीचरित्रं समाप्त // श्रीरस्तु // आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारों करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने - माटे पोताना श्रीजैनभास्करोदय प्रेसमा छापीने प्रसिद्ध कर्य. ॥समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् //

Loading...

Page Navigation
1 ... 14 15 16 17 18