Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 22
________________ यिता गोष्ठीबन्धानाम्, आश्रयो रसिकानाम्, प्रत्यादेशो धनुष्मताम्, धौरेयः साहसिकानाम्, अग्रणीर्विदग्धानाम्, वैनतेय इव विनतानन्दजननः, वैन्य इव चापकोटिसमुत्सारितारांतिकुलाचलो राजा शूद्रको नाम । नाम्नैव यो निर्भिन्नारातिहृदयो विरचितनारसिंहरूपाडम्बरम्, एकविक्रमाक्रान्तसकलभुवनतलो विक्रमत्रयायासितभुवनत्रयं च जहासेव वासुदेवम् । अतिचिरकाललग्नमतिक्रान्तकुनृपतिसहससंपर्ककलङ्कमिव क्षालयन्ती यस्य विमले कृपाधाराजले चिरमुवास राजलक्ष्मीः । यच मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि - *********** शत्रुलोकस्योत्पातकेतुधूमकेतुः । प्रवर्तयितेति । गोष्ठीबन्धानां मधुरकथानां प्रवर्तयिता प्रवर्तकः । आश्रय इति । रसिकानां रसवेतृणामाश्रयः आश्रयस्थानम् । प्रत्यादेश इति । धनुष्मतां धनुर्धारिणां प्रत्यादेशो निराकर्ता । 'प्रत्यादेशो निराकृतिः' इति कोशः । सर्वधनुर्धरोत्कृष्ट इत्यर्थः । धौरेय इति । साहसिकानां सत्त्ववतां मध्ये धौरेयो धुर्यः । अग्रणीरिति । विदग्धानां पण्डितानां मध्येऽग्रणीमुख्यः । वैनतेय इति । विनतेभ्यः कृतनतिभ्य आनन्दस्य प्रमोदस्य जननः कर्ता । क इव । वैनतेय इव सुपर्ण इव । सोऽपि विनतायाः स्वमातुः प्रमोदकृत्स्यादित्युभयोः साम्यम् । वैन्य इवेति । चापो धनुस्तस्य कोटिरग्रभागस्तेन समुत्सारिता निराकृता अरातय एव शत्रव एव कुलाचलाः कुलपर्वताः क्षेत्रसीमावर्तिपर्वताः येन स तथा । क इव । वैन्य इव पृथुराज इव । एतत्पक्षेऽरातयः कुलाचलाश्चेति द्वन्द्वः । शेषं पूर्ववत् । पृथुना पूर्व पर्वताकीर्णां धरित्री विलोक्य धनुःकोट्या पर्वतानुत्सार्य भूः समीकृतेति पुराणम् । नाम्नेति । यः शूद्रको वासुदेवं श्रीकृष्णं जहासेव हास्यं चकारेव । कथम्भूतः । नाम्नैवाभिधानश्रवणमात्रेणैव निर्भिवानि द्वैधीकृतान्यरातीनां शत्रूणां हृदयानि वक्षांसि येन स तथा । कीदृशं वासुदेवम् । विरचितेति । विरचितो विहितो नारसिंहरूपलक्षण एवाडम्बर आटोपो येन स तथा तम् । एकेति । एकनाद्वितीयेन विक्रमेण पराक्रमेणाक्रान्तं व्याप्तं सकलं समग्रं भुवनतलं विष्टपतलं येन स तथा । कथम्भूतं वासुदेवम् । विक्रमेति । विक्रमः पादविक्षेपस्तस्य त्रयं त्रितयं तेनायासितं संप्राप्तखेदम् । 'आसितम्' इति पाठ आसितं स्थितम् । अत्रायं भावः - अस्य राज्ञो नामश्रवणादेव वक्षोविदारणं भवति । वासुदेवेन तु शत्रुवक्षोविदारणे नृसिंहावताराडम्बरं कृतम् । राज्ञा चैकेनैव विक्रमेण पराक्रमेण सर्वं जगदाक्रान्तम् । वासुदेवन भुवनाक्रमणाय विक्रमत्रयं कृतमिति हास्ये हेतुः । अतीति । यस्य कृपाणधाराजले खड्गधारारूपे जले चिरं बहुकालं यावलक्ष्मीः पद्मोवास वसतिं चक्रे । खड्गबलाल्लक्षीः स्ववशीकृतेति भावः । किं कुर्वतीव । क्षालयन्तीव प्रमार्जयन्तीव । कम् । अतीति । अतिचिरकालो भूयानतीतः समयस्तेन लग्नं जातम् । पुनः । कीदृशम् । अतीति । अतिक्रान्ता व्यतीता ये कुनृपतयः कदर्यनरपतयस्तेषां सहसं तेन संपर्कः संबन्धस्तेन यः कलङ्कोऽभिज्ञानम् । अन्योऽपि पङ्कादिकं जलादिना क्षालयतीति ध्वनिः । यश्चेति । यः शूद्रको भगवतो नारायणस्यानुकरोति । तत्तुल्यतां भजतीत्यर्थः । तदेव दर्शयति - मनसि धर्मेणेत्यादि । अत्र वसतेति वसतापदस्य सर्वत्रान्चयो यथालिङ्गम् । मनसि स्वान्ते धर्मेण वृषेण वसता वासं कुर्वता । सदैव धर्मचिन्तनात् । कोपे क्रोधे यमेन कृतान्तेन । तत्कालमेव सापराधिना प्राणहरणात् । तथा प्रसादे प्रसन्नतायां धनदेन श्रीदेन । सेवाकृत्समीहिताधिकप्रदानात् । प्रतापे पूर्वोक्तलक्षणे वह्निनाग्निना । समग्रशत्रुदाहकत्वात् । भुजे बाहौ भुवा पृथिव्या । राज्यभारक्षमत्वात् । दृशि चक्षुषि श्रिया लक्ष्म्या । सप्रीतिनिरीक्षणमात्रेणैव तत्संभवात् । वाचि वचने सरस्वत्या भारत्या । अनवरतगद्यपद्यायनेकप्रबन्धविधानात् । मुखे वदने शशिना - १ पृथु. २ सकलाराति. ३ नरसिंह. ४ हसति स्मेव. पूर्वभागः ।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 494