Book Title: Kadambari Part 01 Author(s): Hitvardhanvijay Publisher: Kusum Amrut TrustPage 23
________________ सवित्रा च वसता सर्वदेवमयस्य प्रकटितविश्वरूपाकृतेरनुकरोति भगवतो नारायणस्य । यस्य च मदकलकरिकुम्भपीटपाटनं विद॑धतो लग्नस्थूलमुक्ताफलेन दृढमुष्टिनिष्पीडैनान्निष्ठ्यूतधारार्जेलबिन्दुदन्तुरेणेव कृपाणेनाकृष्यमाणा, सुभटोरःकपाटविर्घटितकवचसहस्रान्धकारमध्यवर्तिनी करिकैरटगलितमदजलासारदुर्दिनास्वभिसारिकेव समरनिशासु समीप सँकृर्दगाद्राजलक्ष्मीः । यस्य च हृदिस्थितानपि भर्तृन्दिधक्षुरिव प्रतापानलो वियोगिनीनामपि रिपुसुन्दरीणामन्तर्जनितदाघो दिवानिशं जज्वाल । यस्मिंश्च राजनि जितजगति पौलयति महीं चित्रकर्मसु वर्णसंकराः, रतेषु केशग्रहाः, काव्येषु दृढबन्धाः, शास्त्रेषु चिन्ता, स्वप्नेषु विप्रलम्भाः, *********** चन्द्रेण । तदनुकारित्वाज्जनाह्लादकत्वाच्च । बले सामर्थ्ये मरुता वायुना । अतिबलत्वात् । तथा प्रज्ञायां प्रतिभायां सुरगुरुणा वृहस्पतिना । निःप्रतिमप्रतिभावत्त्वात् । एवंरूपे सौन्दर्ये मनसिजेन कामेन । मानिनीमानहरणात् । तेजसि प्रतापलक्षणे सवित्रा सूर्येण । शत्रूणां दुर्निरीक्ष्यत्वात् । किंविशिष्टस्य नारायणस्य । सर्वेति । सर्वे च ते देवाश्च सर्वदेवास्तत्स्वरूपः सर्वदेवमयः । अत्र 'प्राचुर्यविकारप्राधान्यादिषु' इति सूत्र आदिशब्दात्स्वरूपार्थेऽपि मयग्रहस्तस्य । प्रकटितेति । प्रकटिता प्रकाशिता विश्वरूपा त्रिजगत्स्वरूपाकृतिराकारो येन स तथा तस्य । अनेन राज्ञस्तत्साम्यं सूचितं भवतीति भावः । यस्य चेति । यस्य राज्ञः समरनिशासु सङ्ग्रामरात्रिषु राजलक्ष्मीर्वैरिनृपश्रीरभिसारिकेव ध्वान्ते दत्तसंकेतेव समीपं संनिधिमगादागतवती । सकृदित्येकवारम् । पुनर्न गतेति भावः । यस्य किं कुर्वतः । विदधत् आचरतः । किम् । मदेति । मदेन दानवारिणा कलं मनोज्ञं यत्करिकुम्भपीठं हस्तिशिरः पिण्डफलकं तस्य पाटनं विदारणम् । अर्थाद्वैरिणामित्यर्थः । पुना राजलक्ष्मीं विशेषयन्नाह - आकृष्येति । आकृष्यमाणा समन्ताद् गृह्यमाणा । केन । कृपाणेन खड्गेन । इतः खड्गं विशिनष्टिलग्नेति । लग्नानि संबद्धानि स्थूलानि स्थविष्ठानि गजसंबन्धीनि मुक्ताफलानि रसोद्भवानि यस्य स तथा तेन । दृढेति । दृढमुष्ट्या यन्निपीडनम् । अत्र दार्ढ्यमात्रविवक्षया न पुंवद्भावनिषेधः । तस्मान्निष्ठ्यूतं निर्गतं धारैव जलमिति रूपकं तस्य ये विन्दवः पृषताः तैरेव दन्तुरेणोदग्रदशनेनेत्युपमा । 'उदग्रदो दन्तुरः स्यात्' इति कोशः । सुभटोर इति । परस्य ये सुभटा योद्धारस्तेषामुरांस्येव कपाटा तेभ्यो विघटितानि विभिन्नानि यानि कवचानि तनुत्राणि तेषां यत्सहस्रं तदेव नैल्यसादृश्यादन्धकारस्तमिसं तन्मध्यवर्तिनी तदन्तःपातिनी । अथ समरनिशां विशेषयन्नाह - करीति । करिणां गजानां करटानि कपोलानि तेभ्यो गलितं च्युतं यन्मदजलं दानवारि तस्यासारो वेगवान्वर्षस्तेन दुर्दिनं मेघजं तमो यासु तास्तथा तासु । यस्य चेति । यस्य पूर्वोक्तस्य राज्ञः प्रतापः कोशदण्डजं तेजस्तदेवानलो वह्निर्दिवानिशमहोरात्रं जज्वाल प्रदीप्तोबभूव । किं कर्तुमिच्छुरिव । भर्तृन् दिधक्षुरिव दग्धुमिच्छुरिव । किंविशिष्टान्भर्तृन् । हृदिस्थितानपि हृदयवर्तिनोऽपीत्यनेन दाहायोग्यत्वं सूचितम् । अथ पूर्वोक्तं प्रतापानलं विशिनष्टि - अन्तरिति । अन्तर्मध्ये जनित उत्पादितो दाघो दग्धिर्येन स तथा । तासाम् । रिपुसुन्दरीणां शत्रुवनितानाम् । कीदृशीनाम् । वियोगिनीनामपि वियुक्तानामपि पूर्वमेव भर्तृव्यापादनात् । एतेन हृदयान्तर्गतं शत्रुगणं यत्प्रतापो न सहत इति तत्प्रतापाधिक्यवर्णनेन राज्ञ आधिक्यवर्णनम् । पुनस्तदाधिक्यं वर्णयन्नाह यस्मिंश्चेति । यस्मिन्राजनि जितजगति निर्जितविष्टपे महीं पृथ्वीं पालयति शासति सत्येतानि वस्तून्येतेषु स्थलेष्वासन्वभूवुः । न प्रजानामित्यन्वयः । तान्येवाह - चित्रेत्यादि । चित्रकर्मस्वालेख्यक्रियासु वर्णा रक्तपीतादयस्तेषां संकराः परस्परसंबन्धाः । चित्रकर्मणि सुवर्णसंकरा इति वा । सुवर्णमिश्रालेख्यानीत्यर्थः । द्वितीयपक्षे वर्णा ब्राह्मणादयस्तेषां संकराः । अन्यतोऽन्योत्पत्तिरित्यर्थः । रतेष्विति । रतेषु मैथुनेषु केशग्रहाः । नान्यत्र कलहेषु । तदभावात् । काव्येष्विति । काव्येषु कविकर्मसु दृढबन्धाः कठिनबन्धाः । १ आचरतो; आचरता. २ दृष्ट. ३ निःपीडन. ४ जलदन्तुरेण. ५ घटित. ६ करटतट; करतट. ७ असकृत्. ८ आजगाम. ९ हृदय. १० पतीन्. ११ धक्षु. १२ दाहो. १३ परिपालयति. १४ चिन्ताः. 10 कादम्बरी |Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 494