Book Title: Kadambari Part 01 Author(s): Hitvardhanvijay Publisher: Kusum Amrut TrustPage 31
________________ नुलेपनधवलितोरःस्थलम् उपरिविन्यस्तकुङ्कुमस्थासकमन्तरान्तरानिपतितबालातपच्छेदमिव कैलासशिखरिणम्, अपरशशिशङ्कया नक्षत्रमालयेव हारलतया कृतमुखपरिवेषम्, अतिचपलेराज्यलक्ष्मीबन्धनिगडकटकशङ्कामुपजनयतेन्द्रमणिकेयूरर्युग्मेन मलयजरसगन्धलुब्धेन भुजङ्गद्वयेनेव वेष्टितबाहुर्युगलम्, ईर्षंदालम्बिकर्णोत्पलम्, उन्नतघोणम्, उत्फुल्लपुण्डरीकँनेत्रम्, अमलकलधौतपट्टायतमष्टमीचन्द्रशकलाकारमशेषभुवनराज्याभिषेकपूतमूर्णासनाथं ललाटदेशमुद्वहन्तम्, आमोदिमालतीकुसुमशेखरमुषसि शिखरपर्यस्ततारकापुञ्जमिव पश्चिमाचलम्, आभरणप्रभापिशङ्गिताङ्गतया लग्नहरहुताशमिव मकरध्वजम्, आसन्नवर्तिनीभिः सर्वतः - *********** 1 अतिसुरभि अतिसुगन्धि यच्चन्दनं मलयजं तस्यानुलेपनमङ्गरागस्तेन धवलितं शुभ्रीकृतमुरःस्थलं यस्य स तथा तम् । उपरीति । उपरि । अर्थाद्वक्षसः । विन्यस्ता विहिताः कुङ्कुमस्य केसरस्य स्थासका हस्तबिम्बा यस्य स तम् । 'स्थासकस्तु हस्तबिम्बम्' इति कोशः । कमिव । अन्तरेति । 'अन्तरान्तरा मध्ये मध्ये निपतिताः पर्यस्ता बालातपस्य नवीनालोकस्य छेदाः खण्डा यस्मिन्नेतादृशं कैलासशिखरिणमिव रजताद्रिमिवं । पुनः प्रकारान्तरेण तमेव नृपं विशेषयन्नाह - अपरेति । अपरोऽन्यो यः शशी चन्द्रस्तस्य या शङ्का भ्रान्तिस्तया नक्षत्राणि तारास्तासामाली (सा माला) श्रेणी तद्रूपयैव हारलतया । ' हारो मुक्तान्तः प्रालम्बसक्कलापावली लता' इति कोशः । तेन कृ विहितो मुखस्याननस्य परिवेषः परिधिर्यस्य स तम् । अनेन हारलताया अत्यन्तनैर्मल्यं मुखस्य च चन्द्रसाम्यं सूचितम् । 'परिधिः परिवेषश्च' इति कोशः । अतीति । अतिचपलातिचञ्चला या राज्यलक्ष्मीराधिपत्यश्रीस्तस्या बन्धो नियमनं तत्र निगडेोऽन्दुकस्तस्य यत्कटकं वलयं तस्य शङ्कामारेकीमुपजनयता कुर्वता । एवंभूतेन्द्रमणियुक्तमिन्द्रनीलमणिखचितं यत्केयूरयुग्ममङ्गदद्वन्द्वं तेन वेष्टितं परिक्षिप्तं बाहुयुगलं भुजद्वितयं यस्य स तथा तम् । यद्यपि समस्तवेष्टितपदस्य बाहुपदान्वितस्य विभक्त्यन्तरबद्धेनान्चयस्तथापि विशेषे क्वचित् ‘मानेन जितेन्द्रियः' इत्यादौ तथा दृष्टत्वाददोषो द्रष्टव्यः । केनेव । मलयेति । मलयजश्चन्दनसक्तो यो रंसो द्रव्यस्तस्य गन्धे परिमले लुब्धेनासक्तेन भुजङ्गद्वयेनेव सर्पयुग्मेनेव । ईषदिति । ईषत्किंचिदालम्बि लम्बमानं कर्णोत्पलं श्रवणपङ्कजं यस्य स तथा तम् । उन्नतेति । उन्नतोच्चा घोणा नासिका यस्य स तम् । उत्फुल्लेति । उत्फुल्लं विकसितं यत्पुण्डरीकं सिताम्भोजं तद्वनेत्रे लोचने यस्य स तम् । किं कुर्वन्तम् नृपम् । ललाटदेशमलिकप्रदेशमुद्वहन्तं धारयन्तम् । अथवालीकं विशेषयन्नाह - अमलेति । अमलं निर्मलं यत्कलधौतं सुवर्णं तस्य यः पट्टस्तद्वदायतं विस्तीर्णम् । 'अयनम्' इति पाठे सुवर्णतिलकस्थानम् । 'अयनं सरणिर्मार्गः' इति कोशः । अष्टमीति । अष्टम्यां यच्चन्द्रशकलं तदर्धभागस्तद्वदाकार आकृतिर्यस्य तत्तथा । उभयोः पक्षयोरष्टम्यामष्टावेव कला इत्यर्धचन्द्रः । अतोऽष्टमीग्रहणं युक्तमेवेति भावः । अशेषेति । अशेषाणि समग्राणि यानि भुवनानि तेषां राज्यमाधिपत्यं तस्याभिषेको मङ्गलस्नानं तेन पूतं पवित्रम् । ऊर्णेति । ऊर्णा भ्रुवोरन्तरावर्तस्तेन सनाथं सहितम् । 'ऊर्णा मेषादिलोम्नि स्यादावर्तस्त्व (र्ते चा) न्तरा भ्रुवो:' इत्यमरः । स च चक्रवर्तिप्रभृतीनामेव नान्यजनस्य । तदुक्तम्- 'भूद्वयमध्ये मृणालतन्तुसूक्ष्मं शुभ्रायतमेकं प्रशस्तावर्तं महापुरुषलक्षणम्' इति । पुनरेव नृपं विशेषयन्नाह - आमोदीति । आमोदीनि सुगन्धीनि यानि मालतीकुसुमानि जातीपुष्पाणि तेषां शेखरश्चडाभूषणं यस्य स तथा तम् । कमिव । पश्चिमाचलमिवास्ताद्रिमिव । कीदृशम् । उषसीति । उषसि प्रभाते शिखरे सानुनि पर्यस्ताः पतितास्तारकाणां नक्षत्राणां पुञ्जाः समूहा यस्मिन तम् । अत्र शैलशिखरनृपोत्तमाङ्गयोः पुष्पपुञ्जतारकयोश्चोपमानोपमेयभावः । मकरेति । मकरस्य जलजन्तुविशेष ध्वजोऽङ्को यस्य तमिव । मदनसादृश्यं प्रदर्शयन्नाह - आभरणेति । आभरणानां भूषणानां या प्रभा कान्तिस्तया पिशङ्गितं पीतरक्तीकृतमङ्गं यस्य तस्य भावस्तत्ता तया कृत्वा लग्न आसक्तो हरस्येश्वरस्य हुताशोऽग्नि - टिप्पo - 1 शृङ्खला । 2 भ्रान्तिमित्यर्थः । पाठा० - १ अन्तरानिपतित; अन्तरान्तरानिपतित. २ राजलक्ष्मीबन्धननिगडशङ्कां. ३ इन्द्रनीलमणि. ४ युगलेन. ५ शिखरम्. ६ आलम्बित. ७ लोचनम्. ८ पट्टायित; पट्टायमान. ९ सलिलपूत. १० अङ्गरागतया. 18 कादम्बरी | कथामुखेPage Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 ... 494