Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 20
________________ सरस्वतीपाणिसरोजसंपुटप्रमृष्टहोमश्रमशीकराम्भसः । यशोऽशुशुक्लीकृतसप्तविष्टपात्ततः सुतो बाण इति व्यजायत ॥१९॥ द्विजेन तेनाक्षतकण्ठकौण्ठ्यया महामनोमोहमलीमसान्धया । अलब्धवैदग्ध्यविलासमुग्धया धिया निबद्धेयमतिद्वयी कथा ॥२०॥ आसीदशेषनरपतिशिरःसमभ्यर्चितशासनः पाकशासन इवापरः, चतुरुदधिमालामेखलाया भुवो भर्ता, प्रतापानुरागावनतसमस्तसामन्तचक्रः, चक्रवर्तिलक्षणोपेतः, चक्रघर - *********** लीके ललाटदेशेऽलकभङ्गतामलकाचर्णकुन्तलास्तेषां भङ्गो रचनाविशेषस्तस्य भावस्तां गतः प्राप्तः । एतेनाजसं क्रतुसमूहविधानेन धूमस्य दिगन्तव्यापित्वं सूचितमिति । पुनः किंविशिष्टः । त्रयीति । त्रयी वेदत्रयी सैव वधूस्तस्याः कर्णे श्रोत्रे तमालपल्लव इव तमालपल्लवः । श्यामत्वसाधात्तमालकिसलयेनोपमानम ॥१८॥ सरस्वतीति । ततश्चित्रभानोर्बाण इति बाणाभिधानः सुतः पुत्रो व्यजायताभवत् । किंविशिष्टात्ततः । सरस्वतीति । सरस्वत्या भारत्याः पाणिसरोजसंपुटेन हस्तकमलयुग्मेन स्वयमेव प्रमृष्टं प्रोञ्छितं होमादिकर्मसंबन्धि श्रमस्य खेदस्य शीकराम्भः प्रस्वेदजलं यस्य स तथा तस्मात् । पुनः कथंभूतात् । यश इति । यशसः कीर्तेरंशवो दीप्तयस्तैः शुक्लीकृतानि शुभ्रीकृतानि सप्त रवितुरगप्रमितानि विष्टपानि भुवनानि येन स तथा तस्मात् । 'विष्टपं भवनं जगत् इत्यमरः ॥१९॥ द्विजेनेति । इदानीं बाणः कथां चिकीर्षुरतितीक्ष्णबुद्धिरप्यहंकारं निराकुर्वनाह-तेनेति । तेन वाणेन द्विजेनेयं कादम्बरीरूपा कथा धिया बुद्ध्यैव निबद्धा ग्रथिता । पूर्वं बुद्ध्यारूढीकृत्य पश्चाल्लिखितेति भावः । समुद्रसमकादम्बरीकथोपबन्धने धियः सामर्थ्यं ज्ञात्वापि 'मन्दः कवियशःप्रार्थी' इत्यादिवद्धियो मान्द्यमेवारोपयति-अक्षतेति । अक्षतमच्छिन्नं कण्ठे गले कौण्ठ्यं कुण्ठता यस्याः सा तथा तया । कण्ठेऽपि कुण्ठिता किमुत सभायामपीति भावः । पुनः कथंभूतया । महेति । महानुत्कृष्टो यो मनोमोहश्चित्तविकलता तेन मलीमसा मलिना चासावन्धा चेति तया । पुनः कथंभूतया । अलब्धेति । अलब्धोऽप्राप्तो यो वैदग्ध्यविलासश्चातुर्यलीला तेन मुग्धाऽप्रगल्भा तया । एतादृश्यापि बुद्ध्या रचिता कथा । अतिद्वयीति विशेषणबलाद्बुद्धेरतितीक्ष्णत्वं फलितम् । द्वयीं बृहत्कथां वासवदत्तां चातिक्रान्तेत्यर्थः ॥२०॥ "प्रसिद्धो वापि वर्ण्यः स्यान्महिपालोऽथवा.........................॥ दशरूपकेऽपि 'प्रख्यातोत्पाद्यमिश्रत्वभेदात्रेधापि तनिधा । प्रख्यातमितिहासादेरुत्पाद्य कविकल्पितम् । मिश्रं च संकरात्' इत्यादेरुक्तभेदानां काव्यनाटकचम्पूनां मध्ये 'गद्यपद्यमयी चम्पूर्विधा श्लेषवती च या । राजवर्णनमादौ स्यानगरीवर्णनं ततः । तया चामुकमन्यस्मिन्न तु तन्नृषु कुत्रचित् ॥ यथा- 'शूलुसंबन्धो देवतायतनेषु न नृषु' इति नलचम्वाम् । तथात्रैवाग्रे 'चित्रकर्मसु वर्णसंकरो न मनुष्येषु' इत्यादिचम्पूलक्षणयुक्तां कादम्बरीसंज्ञिका कथामारचयतिआसीदिति । शूद्रको नाम राजासीदिति दूरेणान्वयः । अथ राजानं विशेषयन्नाह-अशेषेति । अशेषाः समग्रा ये नरपतयो राजानस्तेषां शिरांस्युत्तमाङ्गानि तैः समभ्यर्चित सादरतया गृहीतं शासनमाज्ञा यस्य स तथा । सर्वेषामाज्ञापको न त्वाज्ञाकरः । अत एवापरो भिन्नः पाकशासन इव । इन्द्रसाम्यम् । चतुरिति । चत्वारश्च त उदधयश्च चतुरुदधयस्तेषां माला पङ्क्तिः सैव मेखलावधिर्यस्यास्तादृश्या भुवः पृथिव्या भर्ता नायकः । प्रताप इति । प्रतापः कोशदण्डज तेजः, अनुरागः स्नेहः ताभ्यामवनतं नम्रीभूतं समस्तं समग्र सामन्तचक्र सामन्तमण्डलं स्वदेशपर्यन्तवर्ति राजचक्रं यस्य तथा । अन्यदपि लोहचक्रमग्निप्रतापादवनतं भवतीति ध्वन्यते । चक्रेति । चक्रवर्ती सार्व पूर्वभागः ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 494