Book Title: Kadambari Part 01 Author(s): Hitvardhanvijay Publisher: Kusum Amrut TrustPage 10
________________ चाशरीरिणी वागश्रूयत - 'वत्से महाश्वेते, पुनरपि त्वं मयैव समाश्चासयितव्या वर्तसे । तत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसाऽऽप्याय्यमानं भूयस्त्वत्समागमाय तिष्ठत्येव । इदमपरं मत्तेजोमयं चन्द्रापीडस्य शरीरं शापदोषादात्मशुन्यमपि, कृतशरीरान्तरसंक्रान्तेोगिन इवाऽत्रैव भवत्योः प्रत्ययार्थमा शापक्षयादास्ताम् । नेदमग्निना संस्कर्तव्यम् । यत्नतः पालनीयमा समागमप्राप्तेः ।। ___ अथ किमेतदिति विस्मयाक्षिप्तहृदयेषु सर्वेषु, आविष्टेव पत्रलेखा ‘विना वाहनमेकाकिनी प्रस्थिते देवे, न क्षणमपि शोभसे त्वम् इतीन्द्रायुधमाकर्षन्ती सह तेनाच्छोदसरस्यपतत् । तत्क्षणमेव च तस्मादच्छोदाम्भसो निर्गत्य कपिजलो महाश्वेतामुपजगाम । सपहर्षं कृतवन्दनया तया सर्वं वृत्तजातं पृष्टोऽसौ जगाद - "-'क्व मे प्रियसुहृदमपहृत्य गच्छसि इत्यभिधाय पुण्डरीकशरीरमुत्क्षिपन्तं तं पुरुषमनुबध्ननहं तेन सह चन्द्रलोकं गतोऽस्मि । पुरुषोऽसौ स्वयं चन्द्रमाः । असौ तच्छरीरं पर्यः स्थापयित्वा मामवादीत् - "कपिजल ! जानीहि मां चन्द्रमसम् । अनेन (पुण्ड.)हि स्वव्यापारमनुतिष्ठनहम् 'यथाहमप्राप्तप्रियासमागम एव त्वया प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमिभूतेऽस्मिन्भारते जन्मनि जन्मन्येवोत्पन्नानुरागोऽप्राप्तप्रियासमागमो जीवितमुत्सक्ष्यसि इति निरपराधमेव शप्तः । शापक्रोधाज्वलितोहम् 'त्वमपि मत्तुल्यदुःखसुख एव भविष्यसि' इति प्रतिशापमस्मै प्रायच्छम् । अपगतामर्षश्च महाश्वेताव्यतिकरं विवेकेन विचार्य दयमानहृदयोहम्, मद्दत्तशापदोषमोचनपर्यन्तमस्य शरीरं मा व्यनशदिति शरीरमिदमानैषमहम् । वत्सा च महाश्वेता समाश्वासिता । तदनेन स्वयंकृतादात्मदोषान्मया सह मर्त्यलोके जन्मनि जन्मनीति वीप्सावशाद्, वारद्वयमवश्यमुत्पत्तव्यम् । त्वमिदं वृत्तं प्रतिकारं कर्तुं चेतकेतवे निवेदय । 'अहं तु वयस्यशोकान्धतया सुरवर्त्मनि धावनेन वैमानिकमेकं लङ्घयन् कोधोद्दीप्तेन तेन- 'तुरङ्गम इव मामवहेलयन् तुरङ्गम एव भूत्वा त्वं मर्त्यलोकेऽवतर' इति शप्तोऽस्मि । शापप्रतिसंहाराय बहुशः कृतानुनयोऽसौ जगाद - 'उज्जयिन्यामपत्यहेतोस्तपस्यतस्तारापीडनाम्नो राज्ञश्चन्द्रमसा तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासस्य (तनयत्वम्.) । त्वमपि तस्य चन्द्रात्मनो राजपुत्रस्य वाहनतामुपगत्य सहचारी भविष्यसि । अहं तु तद्वचनानन्तरमेव महोदधौ निपत्य तुरगीभूयोदतिष्ठम् । पूर्वजन्मप्रभावात्सर्वं स्मरनहमेव किनरयुग्मानुसरणप्रसङ्गेन चन्द्रावतारं चन्द्रापीडमिहाऽऽनयम् । योऽसौ प्राक्तनसंस्कारात्त्वामभिलषन् त्वया शापाग्निना दग्धः सोऽपि मे सुहृदः पुण्डरीकस्यावतारः । 'हन्त पुनरपि निघृणया मयैव देवः पुण्डरीको निपातितः' इति सोरस्ताडं विलपन्ती महाश्वेताम् ‘अचिरादेव पुनः समागमो भवेत्' इत्याश्वास्य कपिञ्जलः श्वेतकेतोः समीपमुदपतत् । गते तस्मिन् पुनः समागमोपदेशेन समाधास्यमाना कादम्बरी शिलातले चन्द्रापीडतनुमवस्थाप्य प्रयता देवोचितं पूजयन्ती तस्थौ । इतो जलदकालात्यये चन्द्रापीडवार्तामादाय प्रतिगतदूतमुखेन 'शापच्युतदिव्यप्रकृतीनामखिलं मङ्गलोद भविष्यतीति' समाचासेन मरणव्यवसायानिवार्यमाणा अपि तारापीडशुकनासादयः सान्तःपुरपरिजनाः स्नेहवशादखिलप्रजाभिरनुगम्यमानाश्चन्द्रापीडदर्शनाय तत्राजग्मुः । तत्र च शयानस्येवाऽविकृतां चन्द्रापीडस्य तनूमालोक्य विस्मिताः सर्वे सौन्दर्यपातिव्रत्याधिदेवतामन्वहमुपचरन्ती कादम्बरीमभिननन्दुः । कादम्बरीमहाश्वेताप्रबन्धेन राजोचितसपर्ययोपचर्यमाणोऽपि सप्रजापरिजनो राजा तपस्विजनचर्ययाऽऽश्रमभूमिमिमामधितष्ठौ । हारीतप्रमुखानामृषीणां सविधे सर्वमिमं वृत्तान्तं कथयित्वा भगवान् जाबालिः सस्मितमवादीत् - 'योऽयं कामोपहततया दिव्यलोकात्परिभ्रश्य वैशम्पायननामा शुकनाससूनुरभूत्स एवैष कुपितस्य पितुराक्रोशान्महाश्वेताशापाच्चास्यां शुकजातौ पतितोऽस्ति' - ।" राज्ञः शूद्रकस्य सविधे शुकः स्ववृत्तान्तं कथयति यत् - 'एवं वदत्येव जाबालौ सुप्तप्रबुद्धस्येव मे सकलविद्यानां पूर्वपरिचितवस्तूनां च परिचयो यथावदभूत, आसीच्च मनुजस्येव वाक् । जाबालिपुत्रेण हारीतेन स्नेहादुपचर्यमाणोपि चन्द्रापीड-महाश्वेतादीनां स्मरणवशादुत्कण्ठया ताम्यन् पक्षोद्धेदपर्यन्तं कालं तत्र यथाकथंचिदगमयम् । पितुः (वेतकेतोः) समीपादागतेन कपिञ्जलेन दुर्दैवावसानं यावत्तत्रैवावस्थातुमागृहीतोऽपि उत्पतनसामर्थ्योदये एव महाघेतादीनां दर्शनार्थमुत्तरदिङ्मुखो नभस्युदपतम् । अशक्ततया क्षुत्तृड्भ्यां परीतोऽहं विश्रमार्थं यावनिशि मार्गतरौ विश्राम्यामि तावदेव प्रातस्तन्तुपाशैर्बद्धं चाण्डालहस्तगतं चात्मानमालोकयम् । ततः पक्कणाधिपतिदुहित्रा चाण्डालदारिकया पञ्जरे (कादम्बरीसारः।।Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 494