Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 15
________________ जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपासवः ॥ २ ॥ *********** तद्दीक्षितानेकविनेयवर्गमुक्तालतामध्यमणिप्रकारः । श्रीवाचकेन्द्रः सकलादिचन्द्रो बभूव विश्वाद्भुतवाग्विलासः ॥ श्रीसूरचन्द्रः समभूत्तदीयशिष्याग्रणीायविदां वरेण्यः । यत्तर्कयुक्त्या त्रिदिवं निषेवे तिरस्कृतश्चित्रशिखण्डिजोऽपि ॥ तदीयपादाम्बुजचञ्चरीको विराजतेऽद्धा हरिधीसखाभः । श्रीवाचकः संप्रति भानुचन्द्रो ह्यकब्बरक्ष्मापतिदत्तमानः । श्रीशाहिचेतोब्जषड ितुल्यः श्रीसिद्धचन्द्रोऽस्ति मदीयशिष्यः । कादम्बरीवृत्तिरियं तदीयमनोमुदे तेन मया प्रतन्यते ॥ इह हि विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं प्रारिप्सितविघ्नविघातफलकं हिरण्यगर्भनमस्कारात्मक मङ्गलमाचरति - रजोजुष इति । अजाय स्वयंभुवे नम इत्यन्वयः । किंभूताय । प्रजानां जन्मनि सृष्टिकाले रजोजुषे रजोगुणयुक्ताय । पुनः किंविशिष्टाय । प्रजानां स्थितौ स्थितिकाले सत्त्ववृत्तये सत्त्वस्य वृत्तिर्यस्मिन् । सत्त्वगुणयुक्तायेत्यर्थः । पुनः किंलक्षणाय । प्रजानां प्रलये विनाशकाले तमःस्पृशे तमोगुणयुक्ताय । अमीषां च गुणानां लक्षणम् ‘सत्त्वं लघु प्रकाशकं च, चलमवष्टम्भकं च रजः, गुर्वावरणं च तमः' इति द्रष्टव्यम् । जन्मनि स्थितौ प्रलये चेति निमित्तसप्तमी वा । पुनः किंविशिष्टाय । सर्गस्थितिनाशहेतवे प्रजानामित्यस्य सर्वत्रानुषङ्गः । तेन प्रजानां सर्गः स्थितिश्च नाशश्च तेषां हेतवे कारणीभूताय । पुनः किंलक्षणाय । त्रयीमयाय । त्रयी ब्रह्मविष्णुमहेशानाम् । वेदानां वा त्रयी तन्मयाय तत्स्वरूपाय । पुनः किंविशिष्टाय । त्रिगुणात्मने ब्रह्मविष्णुमहेशात्मकत्वेन तत्तद्गुणयोगात्रिगुणात्मकाय । सत्त्वरजस्तमोगुणस्वरूपायेत्यर्थः । तादृशाय पितामहाय नम इति प्राचीनव्याख्या ॥ अत्र च व्याख्याने विधेः सृष्टिमात्रकर्तृत्वेन केवलं रजोगुणस्यैव संबन्धात्रिगुणात्मकत्वमतिविरुद्धम् । किं च विधेस्तमोगुणवत्त्वे सत्त्वगुणवत्त्वे वा शिवत्वं विष्णुत्वं च व्यपदिश्येत । एतेषां त्रयाणां गुणभेदादेव मूर्तिभेद इति पौराणिकाः । अपि च पूर्वार्धे जन्मस्थितिप्रलयकर्तृत्वस्य रजोजुषे सत्त्ववृत्तये तमःस्पृश इत्यनेन त्रिगुणात्मकत्वस्यापि चोक्तत्वेन पुनरुत्तरार्धे मर्गस्थितिनाशहेतव इति त्रिगुणात्मनं इति च पुनरुक्तं स्यादिति प्रकारान्तरेण व्य इत्यन्वयः । किंभूताय । प्रजानां सर्गस्थितिनाशहेतवे । प्रजानामित्यनित्यमात्रपदार्थोपलक्षकम् । तेनानित्यपदार्थाना सर्गस्थितिनाशकारणायेत्यर्थः । अनित्यपदार्थानां सृष्टिस्थितिनाशहेतुत्वं च श्रुतिसिद्धम् । 'जगत्कारणं ब्रह्म' इति श्रुतेः । पुनः किंभूताय । त्रयीमयाय । त्रयी वेदानां त्रयी तत्त्स्वरूपाय । 'वेद एव परं ब्रहा' इत्युक्तत्वात् । यद्वा । त्रयी ब्रहाविष्णुमहेशानां त्रयी तत्स्वरूपाय । यथा मृद उत्पन्नेऽपि घटे मृन्मय इति व्यवहारस्तथा ब्रह्मणस्त्रयाणामुत्पादकत्वेऽपि त्रयीमयत्वव्यवहारः समुचितः । ब्रह्मविष्णुमहेशास्त्रयो जीया एवेति वेदान्तिनः । अत एव त्रिगुणात्मकाय । भेदाभेदविवक्षयेत्यर्थः । तस्य परब्रह्मणः कथं ब्रह्मविष्णुमहेशात्मकत्वमत आह-प्रजाना जन्मनि सृष्टौ रजोजुट् प्रजापतिस्तत्स्वरूपायेत्यर्थः । पुनः प्रजानां स्थितौ सत्त्ववृत्तिर्विष्णुस्तत्स्वरूपाय । पुनः प्रजानां प्रलये तमःस्पृक् शिवस्तत्स्वरूपाय । यथैकस्यैव स्फटिकस्य नीलपीतादिगुणसंबन्धानीलः पीत इति व्यवहारस्तथैकस्यैव परब्रह्मणः सृष्टिकाले रजोगुणसंवन्धाद् ब्रहोति, स्थितिकाले सत्त्वसंबन्धाद्विष्णुरिति, प्रलये तमःसंबन्धादीश्वर इति व्यवहारः । तेन परब्रह्मण एवायं नमस्कार इति किं बहुना ॥१॥ जयन्तीति । त्र्यम्बकस्य शिवस्य पादपांसवश्चरणरेणवो जयन्ति । सर्वोत्कर्षेण वर्तन्त इत्यर्थः । कथंभूताः । बाणासुरेति । वाणो बाणनामासुरस्तस्य मौलिना मुकुटेन मस्तकेन वा लालिताः परिचिताः । पुनः किंविशिष्टाः । कादम्बरी ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 494