Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 16
________________ जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्येया । दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिनमिवासपाटलम् ॥३॥ नमामि भेत्सोश्चरणाम्बुजद्वयं सशेखरैर्मोखरिभिः कृतार्चनम् । समस्तसामन्तकिरीटवेदिकाविटङ्कपीठोल्लुठितारुणाङ्गुलि ॥४॥ __ अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते । विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥५॥ कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनश्रृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥६॥ *********** दशास्येति । दशास्यो रावणस्तस्य चूडामणयः शिरोमणयस्तेषां चक्र समूहं चुम्बन्ति स्पृशन्तीत्येवंशीलाः । पुनः किंविशिष्टाः । सुरेति । सुराश्चासुराश्च तेषामधीशाः स्वामिनस्तेषां शिखाः चूडास्तासामन्तः प्रान्तस्तत्र शेरत इत्येवंशीलाः । पुनः किंविशिष्टाः । भवच्छिदः संसारविच्छेदिन इत्यर्थः । अत्र पूर्वविशेषणत्रयेण परमेश्वरचरणरजसः परमैश्वर्यं भवच्छिद इत्यनेन च संसारिणां संसारदुःखनिवारकत्वमुक्तमिति ॥२॥ जयतीति । स उपेन्द्रो विष्णुसिंहावतारी जयति सर्वोत्कृष्टत्वेन वर्तते । स कः । यो नृसिंहो बिभित्सया भेत्तुमिच्छया दूरतो दूरादिव क्षणं लब्धं लक्ष्यमवलोकनैकाग्रत्वं यया अत एव कोपेन रोषेण अरुणया आरक्तया दृशैव दृष्ट्यैव रिपोः शत्रोर्हिरण्यकशिपोः उरो वक्षःस्थलमसं रुधिरं तद्वापाटलमारक्तं चकार । भयाद्विदारणभीत्या स्वयमेव भिन्नमिवेति कवेरुत्प्रेक्षा ॥३॥ शश्वद्गुरोर्नमस्कारं कुर्वनाह-नमामिति । भत्सुरिति गुरोर्नाम । कचित्तु 'भत्सुः' इति पाठः । तस्य चरणाम्बुजद्वयं पादकमलयुगल नमामि नमस्करोमि । किंभूतम् । सशेखरैः समुकुटैर्मोखरिभिः क्षत्रियविशेषैः कृतं विहितमर्चनं पूजनं यस्य तत्तथा । पुनः किंविशिष्टम् । समस्तेति । समस्ताः समग्रा ये सामन्ता विषयान्तरराजानस्तेषां किरीटानि कोटीराण्येव वेदिका परिष्कृता भूमिः । विस्तीर्णत्वात्त-त्साम्यम् । तस्या विटड्डो मध्य उन्नतप्रदेशः । विटङ्कशब्दस्य कपोताद्याधारभूतकाष्ठवाचित्वेऽप्यत्र लक्षणयोन्नतत्वमात्रवाचित्वम् । विटङ्ग एव पीट स्थल तत्रोल्लुटिता घृष्टा अत एवारुणा रक्ताः । तत्रत्यरक्तादिसंबन्धात्स्वभावेन चारुणा अङ्गुलयः करशाखा यस्येति तत्तथा ॥४॥ अकारणेति । असज्जनात्खलात्कस्य साधोभयं साध्वसं न जायते न भवति । अपितु सर्वस्यापि भवतीत्यर्थः । कथंभूतादसज्जनात् । अकारणेत्यादि । अकारणनिमित्तमेवाविष्कृतं प्रकटीकृतं यद्वैरं विरोधः तेन दारुणात् क्रूरानिष्ठुरात । यस्य खलस्य सदा निरन्तरं मुख आनने संनिहितं निकटस्थं दुर्वचो दुष्टवचनं सदुःसहमत्यन्तोद्वेगजनकं भवति । यथा महाहेर्महोरगस्य विषं गरलं मुखे संनिहितं परमसंतापकत्वाद्दुःसहमित्युपमा ॥५॥ कट्विति । खला दुर्जनाः साधून्सज्जनानलमत्यर्थं तुदन्ति पीडयन्ति । किं कुर्वन्तः । क्वणन्तो रटन्तः । किम् । कटु । अर्थादुर्वचनमित्यर्थः । पुनः किंविशिष्टाः । मलदायकाः मलो मिथ्याकलङ्कस्तस्य दायकाः । आरोपका इत्यर्थः । क इव । बन्धनश्रृङ्खला इव । बन्धन मनुष्यादेस्तदर्थं श्रृङ्खला लोहनिगडा इव । तेऽपि कटु कुत्सितं शब्दायमाना मलः स्वसंपर्कात्स्वमालिन्यं तस्यारोपकाः स्वाच्छन्येन गतागतावरोधका भवन्तीति । उत्तरार्धेन साधूनस्तौति-सन्तः सुजनास्तु साधुध्वनिभिर्मनोहारिशब्दैर्वचनैः पदे पदे शब्दे शब्दे प्रतिक्षणं वा, मनश्चित्त हरन्ति गृह्णन्ति । क इव । यथा मणिखचिता नपुरा मञ्जीराणि पदे पदे अर्थात्कामिनीनां चरणप्रक्षेपे प्रक्षेपे साधुध्वनिभिर्मञ्जुलसिञ्जितहृदयहारिणो भवन्तीत्युपमा ॥६॥ १ 'बद्ध'. २ 'लक्षया'. ३ 'भो '. पूर्वभागः ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 494