Book Title: Jyotirvignan Shabda Kosh Author(s): Surkant Jha Publisher: Chaukhambha Krishnadas Academy View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। श्रीः।। प्राक्कथनम् शङ्करादिगुरुत्रयं गणपतिं पीठत्रयम्भैरवम् । सिद्धौघं बटुकत्रयम्पदयुगं दूतीक्रमं मण्डलम् ।। वीरान् व्यष्टचतुष्क षष्टिनवकं वीरावलीपञ्चकम् । श्रीमन्मालिनिमन्त्रराज सहितं वन्दे गुरोर्मण्डलम् ।। तत्र भवतां सुविदितमेवैतत् यत् जगति जनिमतामेक एव वेदः श्रेयोमार्गप्रदर्शकः । यतो जनै मन्यन्ते _ 'यदिहास्ति तदन्यत्र यत्नेहास्ति न तद् क्वचित्' अर्थात् यद्वेदे नास्ति, तदन्यत्रोऽपि नह्येव भवितुमर्हति। तस्य वेदस्य षडङ्गभूतानि शिक्षा-कल्प-शब्द-ज्यौतिष-निरूक्त-च्छन्दः शास्त्राणि संदृश्यन्ते । यथा शिक्षा कल्पो व्याकरणं निरुक्तं छन्दस्तं च यः। ज्यौतिषामायनञ्चेति वेदाङ्गानि षडैव तु।। तथा च भास्कराचार्य:शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषि श्रौत्रमुक्तं निरूक्तं च कल्प: करौ । या तु शिक्षाऽस्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ।। इत्यनेन तेषु षडङ्गेषु ज्यौतिशास्त्रस्य परिगणनं वर्तते। तत्र तस्य शास्त्रास्यानेन महत्त्वं संलक्ष्यते। यथा च भास्कर:-- वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण । शास्त्रादस्मात् कालबोधो यतः स्याद् वेदाङ्गत्वं ज्योतिषस्योक्तमस्मात् ।। अपि चाह नारद: वेदस्य निर्मलं चक्षुज्योति:शास्त्रमकल्मषम् । विनैतदखिलं कर्म श्रौतं स्मार्तं न सिद्ध्यति ।। एवमनेन सिद्ध्यते यज् ज्यौतिषशास्त्रं विना लोकानां लौकिकं वैदिकं स्मार्तञ्च किमपि कर्म न साफल्यमुपयाति। यतोऽस्मान् वेदो यज्ञं प्रति प्रवर्तयति। सुष्ठुकाले कृतमेव कर्म साफल्यमकाले वैफल्यं प्रयातीति कालज्ञानं ज्यौति:शास्त्रादेव जायतेऽनेनास्य For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 628