Book Title: Jyotirvignan Shabda Kosh
Author(s): Surkant Jha
Publisher: Chaukhambha Krishnadas Academy

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (iv) नीलकण्ठाचार्यस्य ताजिकनीलकण्ठी नामकस्य च ग्रन्थदर्शनेन स्पष्टीयते। अपरेऽपि केचन ग्रन्था इदृशा वर्तन्ते। . एवं मुगलसाम्राज्यस्यानन्तरमाङ्गलानां साम्राज्ये ये केचिदुर्वरिता अस्माकमार्षग्रन्था भारतीयानां मन्दभाग्यैरनादृताः शनैः शनैः यूरपीयदेशमगच्छन्। तत्रापि च भारतेऽर्वाचीनविनिर्मिता: पौरुषा एव ग्रन्था दृष्टिपथमागच्छन्ति, ते च पौरुषा: ग्रन्थाः पञ्चदशशताब्दाभ्यन्तरकालीना एव सन्ति। यत आर्यभट: (३९७शकाब्दकालीन:) प्रथमाचार्योऽस्ति। इमा: सर्वा वार्ता आर्यभटकदार्यभटीयम् वाराहमिहिरस्य पञ्चसिद्धान्तिकादिग्रन्थाणामालोडनेनापि सम्यक्तया ज्ञायन्ते। एवञ्च भास्कराचार्यकथनेन यत: ज्यौति:शास्त्रमागमादेशमस्ति, यथा 'ज्यौति:शास्त्रफलं पुराणगणकैरादेश इत्युच्यते' तथा च वाराहमिहिरकथनेन ज्यौति:शास्त्राद् पूर्वजन्मार्जितकर्मफलं व्यञ्जयति, यथा-- यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पङ्क्तिम्। व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव।। अथानेन ज्योति:शास्त्रस्य फलादेशकरणमेव मुख्यप्रयोजनं सिद्ध्यति। तत्र च फलादेशज्ञानार्थं होरास्कन्धस्य पौरुषग्रन्थेषु सर्वप्रथमो बृहज्जातकस्याविर्भावोऽभवत्। ग्रन्थोऽयञ्च प्राचीनार्ष होराग्रन्थसारभूतस्तत्सम्मतश्चाधुनिक सकलपौरुषग्रन्थानां जनकोऽभिगण्यते। अस्य ग्रन्थरत्नस्याविर्भावको वाराहमिहिरः। तथा चैतस्यैव ग्रन्थस्य सारभूतं लघुजातकाख्यं तत्कृतमेवातीव मनोहरं जातकविदामुपकृत्यै विराजते। इतः परं कियन्तो जातकविषयकग्रन्थाः कियद्भ्यो ग्रन्थेभ्यः प्राकरणिकवाक्यानि सङ्कलय्य तत्तदाविर्भावकैराविष्कृताः। यथा च श्रीपतिपद्धति:-श्रीपतिना, सारावली-कल्याणवर्मणा, सर्वार्थचिन्तामणि-वेङ्कटेशेण, जातकादेश:गुणाकरेण, होरारत्न-बलभद्रेण, मानसागरी, जातकाभरणम्, जातकतत्त्वम्, मन्त्रेश्वरस्य फलदीपिका बैद्यनाथस्य जातकपारिजात इत्यादयोऽनेके ग्रन्था विविधविषयविभूषिता: समुपलभ्यन्ते। एवं तेषु तावदेका जातकसम्बन्धिका यावद् विषयोपयुक्ता 'सारावली' यतो नामानुरूपगुणोऽतोऽध्यापकैरध्येतृभिश्चाधुना प्राय समाद्रियते। एतद् ग्रन्थादौ विस्तरकृतानि मुनिभिः परिहत्य पुरातनानि शास्त्राणि। होरातन्त्रं रचितं वराहमिहिरेण संक्षेपात्।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 628