Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ -$*$*$* X ARRAROSSA संयमप्रवृत्त्या सकलकर्मक्षयोपपत्तेः, तत: प्रयोजनवान् अधिकृताध्ययनप्रारम्भप्रयासः, अभिधेयं जीवाजीवस्वरूपं, तच्चाधिकृताध्ययननानो यथार्थत्वमात्रादप्यवगतं ?, सम्बन्धश्च द्विधा-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्राद्यस्तर्कानुसारिणः प्रति, तद्यथावचनरूपापन्नं प्रकरणमुपायस्तत्परिज्ञानं चोपेयं, गुरुपर्वक्रमलक्षणः केवलश्रद्धानुसारिणः प्रति, स चैवम्-अर्थतो भगवता वर्द्धमान स्वामिना जीवाजीवाभिगम उक्तः, सूत्रतो द्वादशस्वङ्गेषु गणधरैः, ततोऽपि मन्दमेधसामनुग्रहायातिशायिभिश्चतुर्दशपूर्वधरैस्तृतीयस्मा४ दङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापितः, अमुमेव सम्बन्धमनुविचिन्त्य स्थविरा भगवन्तः प्रज्ञापितवन्त इति प्रतिपादयिष्यति २, इदं । |च जीवाजीवाभिगमाख्यमध्ययनं सम्यग्ज्ञानहेतुत्वात् अत एव (च) परम्परया मुक्तिपदप्रापकत्वाच्छ्रेयोभूतम् अतो मा भूदन 8 विघ्न इति विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहाय स्वतो मङ्गलभूतेऽप्यस्मिन् मङ्गलमुपन्यस्यते, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलम् ‘इह खलु जिणमय' मित्यादि, अत्र जिननामोत्कीर्तनं मङ्गलं, मङ्गलं च नामादिभेदाच्चतुर्धा, तत्रेदं नोआगमतो भावमङ्गलम् , एतच्चाधिकृताध्ययनार्थपारगमनकारणं, मध्यमङ्गलं द्वीपसमुद्रखरूपकथनं, निमित्वशास्त्रे हि द्वीपसमुद्रनामग्रहणं परममङ्गलमिति निवेदितं, तथा च द्वीपसमुद्रादिनामग्रहणाधिकारे तत्रोक्तम्-"जो' जं पसत्थमत्थं पुच्छइ तस्सऽस्थसंपत्ती" इत्यादि, एतच्चाधिकृताध्ययनार्थस्थिरीकरणहेतुः, अवसानमङ्गलं "दसविहा सबजीवा” इत्यादिरूपं, सर्वजीवपरिज्ञानहेतुत्वेन माङ्गलिकत्वात् , | तच्च शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थम् , उक्तंच-तं मंगलमाईए मज्झे पजतए य सत्थस्स । पढमं सुचत्थाविग्धपारगमणाय निद्दिढं १ यो यं प्रशस्तमर्थ पृच्छति तस्यार्थसंप्राप्तिः. २ तन्मङ्गलमादौ मध्ये पर्यन्ते च शास्त्रस्य । प्रथमं सूत्रार्थस्याविनेन पारगमनाय निर्दिष्टम् ॥१॥ Jain Educationa l For Private Personel Use Only How.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 938