Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ १॥ Jain Education | द्वेषमोहादिदोषाणामात्यन्तिकप्रक्षयात् स चात्यन्तिक: प्रक्षयो दोषाणामर्हत एव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः, तत्राचारादिशास्त्राणामनुयोगः पूर्वसूरिभिर्व्यासादिप्रकारैरनेकधा कृतस्ततो न तदन्वाख्याने समस्ति तथाविधं प्रयाससाफल्यम्, अतो यदस्ति तृतीयाङ्गस्य स्थाननाम्नो रागविषपरममन्त्ररूपं द्वेषानलसलिलपूरोपमं तिमिरादित्यभूतं भवाब्धिपरमसेतुर्महाप्रयत्नगम्यं निःश्रेयसावात्यवन्ध्यशक्तिकं जीवाजीवाभिगमनामकमुपाङ्गं पूर्वटी का कृताऽतिगम्भीरमल्पाक्षरैव्र्व्याख्यातम्, अत एव मन्दमेधसामुपकारायाप्रभविष्णु, तस्य तेषा - मनुग्रहाय सविस्तरमन्वाख्यानमातन्यते । तत्र जीवाजीवाभिगमाध्ययनप्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात् कण्टकशाखामर्दनादिवत् इत्याशङ्काऽपनोदाय प्रयोजनादिकमादावुपन्यसनीयम् उक्तं च - " प्रेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये ॥ १ ॥” इति, तत्र प्रयोजनं द्विधा परमपरं च पुनरेकैकं द्विविधं कर्तृगतं श्रोतृगतं च तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात्कर्तुरभाव एव, तथा चोक्तम् — "नैषा द्वादशाङ्गी कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, ध्रुवा नित्या शाश्वती" त्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वादवश्यंभावी तत्सद्भावः, तत्त्वपर्यालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यत्वात् सूत्रापेक्षया चानित्यत्वात्कथञ्चित्कर्तृसिद्धिः, तत्र सूत्रकर्त्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादकस्यार्हतः किं प्रयोजनमिति चेद्, उच्यते, न किञ्चित् कृतकृत्यत्वाद्भगवतः प्रयोजनमन्तरेणार्थ| प्रतिपादनप्रयासो निरर्थक इति चेत्, न तस्य तीर्थकरनामकर्मविपाकोदयप्रभवत्वात् उक्तं च- "तं चे कहं वेइज्जइ ?, अगिलाए धम्मदेसणाए उ” इति श्रोतॄणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं परं निःश्रेयसपदं विवक्षिताध्ययनसम्यगर्थावगमतः १ तच कथं वेद्यते ! अग्लान्या धर्मदेशनयैव ( नादिभिः ) For Private & Personal Use Only शास्त्रभूमिका ॥ १ ॥ ininelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 938