Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
ज्ञानायोगात् केवलं म्लेच्छस्येवाऽऽर्योक्तानुभाषणमात्रमिदमिति, तथा चोक्तमपरैः-"आर्याभिप्रायमज्ञात्वा, म्लेच्छवागयोगतुल्यता अध्ययन सर्वज्ञादपि हि श्रोतुस्तदन्यस्यार्थदर्शने ॥ १ ॥"तत आह-जिनप्ररूपितं' जिनेन-भगवता वर्द्धमानस्वामिना यथा श्रोतृणामधिगमो प्रामाण्यं भवति तथा सम्यक्प्रणयनक्रियाप्रवर्त्तनेन प्ररूपितं, किमुक्तं भवति ?-यद्यपि नाम श्रोता न भगवद्विवक्षां साक्षाधिगच्छति तथा|ऽप्यनादिरयं शाब्दो व्यवहार: साक्षाद्विवक्षाग्रहणमन्तरेणापि भवति यथासङ्केतं शब्दार्थावगमो, बालादीनां तथा दर्शनात् , अन्यथा
सकलशाब्दव्यवहारोच्छेदप्रसक्तेः, चित्रार्था अपि शब्दा भगवतैव सङ्केतिताः प्रस्तावौचित्यादिना च नियतमथै प्रतिपादयन्ति, तत|श्चित्रार्थशब्दश्रवणेऽपि भवति यथाऽवस्थितार्थावगमो, न चान्यथाऽवबुध्यमानांस्तान्न निषेधति, अविप्रतारकत्वात् , न चोपेक्षते, तीर्थ
प्रवर्त्तनाय प्रवृत्तत्वात् , ततो गणभृतां साक्षात् परम्परया शेषसूरीणामपि यथाऽवस्थितार्थावगम इति नेदमविज्ञातार्थमिति, अन्ये त्वाहुः|भगवान्न प्रवचनप्रयासमाधत्ते, केवलं तत्पुण्यप्राग्भारवशादेव श्रोतृणां प्रतिभास उपजायते यथा-इत्थमित्थं भगवान तत्त्वमाचष्टे, ||3|| | उक्तं च-तदाधिपत्यादाभासः, सत्त्वानामुपजायते । स्वयं तु यत्नरहितश्चिन्तामणिरिव स्थितः ॥ १ ॥” इति, तन्मतविकुट्टनार्थमाह-'जिनाख्यातं' जिनेन-भगवता वर्द्धमानस्वामिना प्रकृष्टपुण्यसंभारविपाकोदयतस्तथा व्यापारयोगेन आख्यातं-कथितं जिना| ख्यातं, साक्षात्कथनव्यापारोपलम्भेऽपि यदि तदाधिपत्यमात्रात्तथाप्रतिभासः श्रोतृणामित्यभ्युपगम्यते ततोऽन्यत्रापि तथाकल्पनाप्रसङ्गः, तथा च प्रत्यक्षविरोध इति यत्किञ्चिदेतद्, भगवांश्चाख्यातवान सम्यग योग्येभ्यः श्रोतृभ्यो नायोग्येभ्यः, अमूढलक्षत्वात् , सम्यगयोग्यश्च श्रोता श्रोतृलक्षणोपेतः, श्रोतृलक्षणानि चामूनि-'मध्यस्थो बुद्धिमानी, जात्यादिगुणसंगत: । श्रुतकृच्च यथाशक्ति, श्रोता पात्रमिति स्मृतः ॥१॥" ततः फलवदेवेदं जिनाख्यातमित्यावेदयन्नाह-जिनानुचीर्ण जिना इह हिताप्स्यनिवर्चकयोयसिद्धा
Jain Education
For Private Personel Use Only
jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 938