Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ गणधारिणः परिगृह्यन्ते, विचित्रार्थत्वात्सूत्राणां, ततोऽयमर्थः-जिनैः-हितात्यनिवर्त्तकयोगसिद्धैर्गणधारिभिरनुचीर्ण-सम्यक् तदर्थावगमासङ्गशक्तिग निवर्त्तकसमभावप्राप्त्या धर्ममेघनामकसमाधिरूपेण परिणमितं जिनानुचीर्णम् , अत एव तथारूपसमाधिभावत: समु-1 |ल्लसितातिशयविशेषभावेन तेषां तथा सूत्रकरणशक्तिरिति दर्शयन्नाह–'जिनप्रज्ञप्तं' जिनैः-हितात्यनिवर्त्तकयोगिभिः प्रज्ञप्तं तदन्यसत्त्वानुग्रहाय सूत्रत आचाराद्यङ्गोपाङ्गादिभेदेन रचितं जिनप्रज्ञप्तम् , उक्तं च-"अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा निउणं ।। सासणस्स हियट्ठाए तओ सुत्तं पवत्तई ॥ १ ॥” इति, इदं च हितप्रवृत्तादिरूपेभ्यो जिनेभ्यो देशनीयं, तेषामेव सम्यग्विनेययोग-10 भावतो हिताविघातकरणात् , इत्येतदुपदर्शयन्नाह-'जिनदेशितं' जिना इह हितप्रवृत्तगोत्रविशुद्धोपायाभिमुखापायविमुखादयः परिगृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात् , जिनेभ्यो-हितप्रवृत्तादिरूपेभ्यः शुश्रूषादिभिर्व्यक्तभावेभ्यो देशित-कथितं गणधरैरपि जिनदेशितं, तथा च जम्बूस्वामिप्रभृतय एवंविधा एवेति निरूपणीयमेतत् , अथ प्रकृतिसुन्दरमिदमिति कस्मादजिनेभ्योऽपि नोपदिश्यते ?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानर्थोपनिपातसम्भवात् , दृष्टं च पात्रासुन्दरतया स्वतः सुन्दरमपि रविकराशुलूकादीनामन य, आह च-उंजियव्वं धीरेण हियं जं जस्स सव्वहा । आहारोवि हु मच्छस्स न पसत्थो गलो भुवि ॥१॥" अस्वार्थस्य संदर्शनायाह-'जिनप्रशस्तं' जिनानां-गोत्रविशुद्धोपायाभिमुखापायविमुखहितप्रवृत्तादिभेदानां प्रशस्तं-निरुजपथ्यानबत् उचितसेवनया हितं जिनप्रशस्तम् , एवंभूतं जिनमतम् 'अनुविचिन्त्य औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या पर्यालोच्य 'तत्' जिनमतं 'श्रद्दधानाः १ अर्थे भाषतेऽईन् सूत्र प्रश्नन्ति गणधरा निपुणम् । शासनस्य हितार्थ ततः सूत्रं प्रवर्त्तते ॥ १॥२ प्रयोक्तव्यं धीरेण हितं यद्यस्य सर्वथा । आहारोऽपि च मत्स्यस्य न प्रशस्तो गरो भुवि ॥१॥ JainEducation For Private Personel Use Only UNainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 938