________________
गणधारिणः परिगृह्यन्ते, विचित्रार्थत्वात्सूत्राणां, ततोऽयमर्थः-जिनैः-हितात्यनिवर्त्तकयोगसिद्धैर्गणधारिभिरनुचीर्ण-सम्यक् तदर्थावगमासङ्गशक्तिग निवर्त्तकसमभावप्राप्त्या धर्ममेघनामकसमाधिरूपेण परिणमितं जिनानुचीर्णम् , अत एव तथारूपसमाधिभावत: समु-1 |ल्लसितातिशयविशेषभावेन तेषां तथा सूत्रकरणशक्तिरिति दर्शयन्नाह–'जिनप्रज्ञप्तं' जिनैः-हितात्यनिवर्त्तकयोगिभिः प्रज्ञप्तं तदन्यसत्त्वानुग्रहाय सूत्रत आचाराद्यङ्गोपाङ्गादिभेदेन रचितं जिनप्रज्ञप्तम् , उक्तं च-"अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा निउणं ।। सासणस्स हियट्ठाए तओ सुत्तं पवत्तई ॥ १ ॥” इति, इदं च हितप्रवृत्तादिरूपेभ्यो जिनेभ्यो देशनीयं, तेषामेव सम्यग्विनेययोग-10 भावतो हिताविघातकरणात् , इत्येतदुपदर्शयन्नाह-'जिनदेशितं' जिना इह हितप्रवृत्तगोत्रविशुद्धोपायाभिमुखापायविमुखादयः परिगृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात् , जिनेभ्यो-हितप्रवृत्तादिरूपेभ्यः शुश्रूषादिभिर्व्यक्तभावेभ्यो देशित-कथितं गणधरैरपि जिनदेशितं, तथा च जम्बूस्वामिप्रभृतय एवंविधा एवेति निरूपणीयमेतत् , अथ प्रकृतिसुन्दरमिदमिति कस्मादजिनेभ्योऽपि नोपदिश्यते ?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानर्थोपनिपातसम्भवात् , दृष्टं च पात्रासुन्दरतया स्वतः सुन्दरमपि रविकराशुलूकादीनामन
य, आह च-उंजियव्वं धीरेण हियं जं जस्स सव्वहा । आहारोवि हु मच्छस्स न पसत्थो गलो भुवि ॥१॥" अस्वार्थस्य संदर्शनायाह-'जिनप्रशस्तं' जिनानां-गोत्रविशुद्धोपायाभिमुखापायविमुखहितप्रवृत्तादिभेदानां प्रशस्तं-निरुजपथ्यानबत् उचितसेवनया हितं जिनप्रशस्तम् , एवंभूतं जिनमतम् 'अनुविचिन्त्य औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या पर्यालोच्य 'तत्' जिनमतं 'श्रद्दधानाः
१ अर्थे भाषतेऽईन् सूत्र प्रश्नन्ति गणधरा निपुणम् । शासनस्य हितार्थ ततः सूत्रं प्रवर्त्तते ॥ १॥२ प्रयोक्तव्यं धीरेण हितं यद्यस्य सर्वथा । आहारोऽपि च मत्स्यस्य न प्रशस्तो गरो भुवि ॥१॥
JainEducation
For Private Personel Use Only
UNainelibrary.org