SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः ज्ञानायोगात् केवलं म्लेच्छस्येवाऽऽर्योक्तानुभाषणमात्रमिदमिति, तथा चोक्तमपरैः-"आर्याभिप्रायमज्ञात्वा, म्लेच्छवागयोगतुल्यता अध्ययन सर्वज्ञादपि हि श्रोतुस्तदन्यस्यार्थदर्शने ॥ १ ॥"तत आह-जिनप्ररूपितं' जिनेन-भगवता वर्द्धमानस्वामिना यथा श्रोतृणामधिगमो प्रामाण्यं भवति तथा सम्यक्प्रणयनक्रियाप्रवर्त्तनेन प्ररूपितं, किमुक्तं भवति ?-यद्यपि नाम श्रोता न भगवद्विवक्षां साक्षाधिगच्छति तथा|ऽप्यनादिरयं शाब्दो व्यवहार: साक्षाद्विवक्षाग्रहणमन्तरेणापि भवति यथासङ्केतं शब्दार्थावगमो, बालादीनां तथा दर्शनात् , अन्यथा सकलशाब्दव्यवहारोच्छेदप्रसक्तेः, चित्रार्था अपि शब्दा भगवतैव सङ्केतिताः प्रस्तावौचित्यादिना च नियतमथै प्रतिपादयन्ति, तत|श्चित्रार्थशब्दश्रवणेऽपि भवति यथाऽवस्थितार्थावगमो, न चान्यथाऽवबुध्यमानांस्तान्न निषेधति, अविप्रतारकत्वात् , न चोपेक्षते, तीर्थ प्रवर्त्तनाय प्रवृत्तत्वात् , ततो गणभृतां साक्षात् परम्परया शेषसूरीणामपि यथाऽवस्थितार्थावगम इति नेदमविज्ञातार्थमिति, अन्ये त्वाहुः|भगवान्न प्रवचनप्रयासमाधत्ते, केवलं तत्पुण्यप्राग्भारवशादेव श्रोतृणां प्रतिभास उपजायते यथा-इत्थमित्थं भगवान तत्त्वमाचष्टे, ||3|| | उक्तं च-तदाधिपत्यादाभासः, सत्त्वानामुपजायते । स्वयं तु यत्नरहितश्चिन्तामणिरिव स्थितः ॥ १ ॥” इति, तन्मतविकुट्टनार्थमाह-'जिनाख्यातं' जिनेन-भगवता वर्द्धमानस्वामिना प्रकृष्टपुण्यसंभारविपाकोदयतस्तथा व्यापारयोगेन आख्यातं-कथितं जिना| ख्यातं, साक्षात्कथनव्यापारोपलम्भेऽपि यदि तदाधिपत्यमात्रात्तथाप्रतिभासः श्रोतृणामित्यभ्युपगम्यते ततोऽन्यत्रापि तथाकल्पनाप्रसङ्गः, तथा च प्रत्यक्षविरोध इति यत्किञ्चिदेतद्, भगवांश्चाख्यातवान सम्यग योग्येभ्यः श्रोतृभ्यो नायोग्येभ्यः, अमूढलक्षत्वात् , सम्यगयोग्यश्च श्रोता श्रोतृलक्षणोपेतः, श्रोतृलक्षणानि चामूनि-'मध्यस्थो बुद्धिमानी, जात्यादिगुणसंगत: । श्रुतकृच्च यथाशक्ति, श्रोता पात्रमिति स्मृतः ॥१॥" ततः फलवदेवेदं जिनाख्यातमित्यावेदयन्नाह-जिनानुचीर्ण जिना इह हिताप्स्यनिवर्चकयोयसिद्धा Jain Education For Private Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy