SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ___'इह' अस्मिन् प्रवचने खलुशब्दोऽवधारणे इहैव प्रवचने न शेषेषु शाक्यादिप्रवचनेषु, अथवा 'इहेति मनुष्यलोके, खलुशब्दो वाक्यालङ्कारे, जिनमत मिति रागादिशत्रून् जयति स्म (इति) जिनः, स च यद्यपि छद्मस्थवीतरागोऽपि भवति तथाऽपि तस्य तीर्थप्रवर्तकत्वायोगादुत्पन्नकेवलज्ञानस्तीर्थकदभिगृह्यते, सोऽपि च वर्द्धमानस्वामी, तस्य वर्तमानतीर्थाधिपतित्वात् , तस्य जिनस्य-वर्द्धमानस्वा मिनो मतम्-अर्थतस्तेनैव प्रणीतत्वादाचारादि दृष्टिवादपर्यन्तं द्वादशाङ्गं गणिपिटकं, कथम्भूतं वर्द्धमानस्वामिजिनमतमित्याह-जिनानु18 मतं' जिनानाम्-अतीतानागतवर्तमानानामृषभपद्मनाभसीमन्धरस्वामिप्रभृतीनामनुमतम्-आनुकूल्येन संमतं वस्तुतत्त्वमपवर्गमार्ग च प्रति मनागपि विसंवादाभावादिति जिनानुमतम् , एतेन सर्वेषामपि तीर्थकृतां परस्परमविसंवादिवचनता प्रवेदिता, पुनः कथम्भूतमि त्याह-'जिनानुलोम' जिनानाम्-अवध्यादिजिनानामनुलोमम्-अनुकूलमनुगुणमिति भावः, एतद्वशादवध्यादिजिनवप्राप्तेः, तथाहि॥ यथोक्तमिदं जिनमतमासेवमाना: साधवोऽवधिमन:पर्यायकेवललाभमासादयन्त्येवेति, तथा 'जिनप्रणीतं' जिनेन-भगवता वर्द्धमान स्वामिना प्रणीतं समस्तार्थसङ्ग्रहात्मकमातृकापत्रयप्रणयनाजिनप्रणीतं, भगवान हि वर्द्धमानस्वामी केवलज्ञानावाप्तावादी बीजबुद्धित्वादिपरमगुणकलितान् गौतमादीन गणधारिणः प्रत्येतन्मातृकापत्रयमुक्तवान् "उत्पन्ने इ वा विगमे इ वा धुवे इ वा” इति, एतच्च पद यमुपजीव्य गौतमादयो द्वादशाङ्गं विरचितवन्तस्ततो भवत्येतजिनमतं जिनप्रणीतमिति, एतेनागमस्य सूत्रतः पौरुषेयत्वमावेदितं, पुरुषव्यापारमन्तरेण वचनानामसंभवात् , न खलु पुरुषव्यापारमन्तरेण नभसि ध्वनन्तः शब्दा उपलभ्यन्त इति, तेन यदवादि परैः -वचनाजिनसंबुद्धिस्तन्नैरर्थक्यमन्यथा । अपौरुषेयमेवेदं, धर्माधर्मनिबन्धनम् ॥ १॥ इति तदपास्तमवसेयमिति, तत्र मा भूत्कस्याप्येवमाशङ्का-यथेदमविज्ञातार्थमेव तत्त्वत: साक्षात्सर्वज्ञादपि श्रवणे सर्वज्ञविवक्षाया अत्यक्षत्वेन ग्रहणाभावे विवक्षितशब्दार्थपरि AGISASOSLASIHATAX En El For Private Personel Use Only Godainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy