________________
शास्त्रभू मिका
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥२॥
॥१॥ तैस्सेव उ थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव । अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥२॥" अथ कथं सकलमेवेदमध्ययनं स्वतो मङ्गलभूतम् ?, उच्यते, निर्जरार्थत्वात्तपोवत् , निर्जरार्थता च सम्यगज्ञानरूपत्वात् , उक्तं च-"जं अण्णाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिँ गुत्तो खवेइ ऊसासमेत्तेणं ॥१॥” मङ्गलशब्दव्युत्पत्तिश्चेयम्-उख णख वख मखेत्यादि दण्डकधातुः, मङ्गयतेऽधिगम्यते हितमनेनेति मङ्गलम् , अथवा मङ्ग इति धर्मस्याख्या तं लाति-आदत्ते इति मङ्गलं, तथा चास्मिन्नध्ययने मनसि भावत: परिणमति समुपजायते सुविशुद्धसम्यग्दर्शनादिको भावधर्मः, उक्तं च-"मंगिजएऽधिगम्मइ जेण हियं | तेण मंगलं होइ । अहवा मंगो धम्मो तं लाति तयं समादत्ते ॥१॥” इति, यदिवा मां गालयति-अपनयति भवादिति मङ्गलं, मा भूद् गलो-विघ्नो गालो वा-नाशः शास्त्रस्यास्मादिति मङ्गलं, पृषोदरादित्वादिष्टरूपनिष्पत्ति: ३॥ तदेवं प्रयोजनादित्रितयं मङ्गलं चोपदर्शितम् , अधुनाऽनुयोग: प्रारभ्यते, अथानुयोग इति कः शब्दार्थः ?, उच्यते, सूत्रपाठानन्तरमनु-पश्चात् सूत्रस्यार्थेन सह योगो-घटनाsनुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, यद्वाऽनुकूल:-अविरोधी सूत्रस्यार्थेन सह योगोऽनुयोगः, तत्रेदमादिसूत्रम्
॥ ऐं नमः ॥ इह खलु जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीतं जिणपरूवियं जिणक्खायं जिणाणुचिन्नं जिणपण्णत्तं जिणदेसियं जिणपसत्थं अणुव्वीइए तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा थेरा भगवंतो जीवाजीवाभिगमणाममज्झयणं पण्णवइंसु (सू०१)
१ तस्यैव तु स्थैर्यार्थ मध्यममन्यमपि तस्यैव । अव्युच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवंशे ॥ २ ॥२ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी। त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण ॥१॥ ३ मझ्यतेऽधिगम्यते येन हितं तेन मङ्गलं भवति । अथवा मझो धर्मस्तं लाति तक समादत्ते ॥१॥
AAMA-44---
॥
२
॥
-
Jain Education in
For Private & Personel Use Only
villainelibrary.org