________________
अभिगम
भेदौ
श्रीजीवा-यद्यपि नाम कालवैगुण्यतो मेधादिगुणहीनाः प्राणिनस्तथाऽप्यतः स्वल्पमप्यधिगतं भवच्छेदायेत्याचित्ततया मन्यमानाः, तथा 'तत्' जीवाभि जिनमतमेव 'प्रीयमाणाः' असङ्गशक्तिप्रीत्या पश्यन्तः, तथा 'तत्' जिनमतमेव रोचयन्तः' सामीभावेनानुभवन्तः, क एते इत्याह-'स्थमलयगि
विरा भगवन्तः' तत्र धर्मपरिणत्या निवृत्तासमक्षसक्रियामतयः स्थविरा इव स्थविराः, परिणतसाधुभावा आचार्या इति गर्भः, 'भगरीयावत्तिःलावन्तः' श्रुतैश्वयोंदियोगादू भग्नवन्तः कषायादीनिति भगवन्तः पृषोदरादित्वान्नकारलोपः, 'जीवाजीवाभिगमं नाम नाना जीवाजीवा
भिगम, नामन्शब्दस्यात्राव्ययत्वात्तत: परस्य तृतीयैकवचनस्य लोपः, जीवानाम्-एकेन्द्रियादीनाम् अजीवानां-धर्मास्तिकायादीनाम॥४॥
भिगम:-परिच्छेदो यस्मिन् तत् जीवाजीवाभिगमम् , इदं चान्वर्थप्रधानं नाम यथा ज्वलतीति ज्वलन इत्यादि, किं तदित्याह-अधीयत इति 'अध्ययन' विशिष्टार्थध्वनिसंदर्भरूपं 'प्रज्ञापितवन्तः' प्ररूपितवन्तः, एतेन गुरुपर्वक्रमलक्षणः सम्बन्धः साक्षादुपदर्शितः, एतदुपदर्शनादभिधेयादिकमपि सिद्धं यथोक्तमनन्तरमिति कृतं प्रसङ्गेन ॥
से किं तं जीवाजीवाभिगमे ?, जीवाजीवाभिगमे दुविहे पन्नत्ते, तंजहा-जीवाभिगमे य अजी
वाभिगमे य ॥ (सू०२) अथास्य सूत्रस्य किमैदम्पर्यम् ?, उच्यते, प्रश्नसूत्रमिदम् , एतच्चादावुपन्यस्यन्निदं ज्ञापयति-पृच्छतो मध्यस्थस्य बुद्धिमतो भगवदहदुपदिष्टतत्त्वस्य तत्त्वप्ररूपणा कार्या नान्यस्येति, अक्षरगमनिका वेवम्-सेशब्दो मगधदेशप्रसिद्धो निपातोऽथशब्दार्थे, अथशब्दश्च प्रक्रियाद्यर्थाभिधायी, उक्तं च-"अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि"ति, इह तूपन्यासे, किंशब्दः परप्रश्ने, स | चाभिधेययथावत्स्वरूपानिर्माते नपुंसकलिङ्गतया निर्दिश्यते, तथा चोक्तम्-"अव्यक्ते गुणसन्दोहे नपुंसकलिङ्गं प्रयुज्यते" ततः पुन
For Private & Personal use only
॥
४
॥
Jain Education
A
jainelibrary.org