SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Jain Education Int रर्थापेक्षया यथाभिधेयमभिसंबध्यते इति, अथ 'किं तज्जीवाजीवाभिगमं' इति, अथवा प्राकृतशैल्या 'अभिधेयवल्लिङ्गवचनानि भवन्ती'ति न्यायात् किं तदिति - कोऽसावित्यस्मिन्नर्थे द्रष्टव्यं ततोऽयमर्थः कोऽसौ जीवाजीवाभिगमः ? इति एवं सामान्येन केनचित्प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादराधानार्थं किञ्चित्प्रत्युच्चार्याह - 'जीवाजीवाभिगमः' अनन्तरोदितशब्दार्थः 'द्विविध:' द्विप्रकार: प्रज्ञप्तस्तीर्थकर गणधरैः, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाह-न सर्वमेव सूत्रं गणधरप्रनतीर्थकरनिर्वचनरूपं किन्तु किञ्चिदन्यथापि, केवलं सूत्रं बाहुल्येन गणधरैर्द्वन्धं स्तोकं शेषैः, यत उक्तम् - "अत्थं भासह अरिहा" इत्यादि, 'तद्यथे 'ति वक्ष्यमाणभेदकथनोपन्यासार्थः, स जीवाजीवाभिगमो यथा द्विविधो भवति तथोपन्यस्यत इति भाव:, जीवाभिगमश्चाजीवाभिगमश्च, चशब्दौ वस्तुतत्त्वमङ्गीकृत्य द्वयोरपि तुल्यकक्षतोद्भावनार्थौ, आह- जीवाजीवाभिगम: प्रश्नसूत्रे संवलित उपन्यस्तस्तं तथैवोच्चार्यासंवलित निर्वचनाभिधानमयुक्तं, असंवलिते संवलितविधानायोगात्, नैष दोषः, प्रश्नसूत्रे ऽप्यसंवलितस्यैवोपन्यासात्, भिन्नजातीययोरेकवायोगात् ॥ तत्र यद्यपि 'यथोद्देशस्तथा निर्देश' इति न्यायोऽस्ति, तथाऽप्यल्पतरवक्तव्यत्वात् प्रथमतोऽजीवाभिगममभिधित्सुस्तत्प्रश्नसूत्रमाह से किं तं अजीवाभिगमे ?, अजीवाभिगमे दुविहे पन्नत्ते, तंजहा - रुविअजीवाभिगमे य अरूविअजीवाभिगमे य ॥ ( सू० ३) से किं तं अरूविअजीवाभिगमे ?, अरूविअजीवाभिगमे दसविहे प०, तंजहा - धम्मत्थिकाए एवं जहा पण्णवणाए जाव सेत्तं अरूविअजीवाभिगमे ( सू० ४ ) । से किं तं रूविअजीवाभिगमे ?, रूविअजीवाभिगमे चउव्विहे पण्णत्ते, तंजहा - खंधा खंधदेसा For Private & Personal Use Only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy