SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥५॥ Jain Education I खंधप्पएसा परमाणुपोग्गला, ते समासतो पंचविहा पण्णत्ता, तंजहा वण्णपरिणया गंध० स० फास० संठाणपरिणया, एवं ते ५ जहा पण्णवणाए, सेत्तं रुविअजीवाभिगमे, सेत्तं अजीवाभिगमे ( सू० ५ ) अथ कोsar अजीवाभिगम: ?, सूरिराह-अजीवाभिगमो द्विविधः प्रज्ञप्तः, तद्यथा - रूप्यजीवाभिगमोऽरूप्यजीवाभिगमञ्च, रूपमेपामस्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणं, तद्व्यतिरेकेण तस्यासम्भवात् तथाहि - प्रतिपरमाणु रूपरसगन्धस्पर्शाः उक्तं च - " कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ एतेन यदुच्यते कैश्चित् “भिन्ना एव रूपपरमाणवो भिन्नाश्च पृथक् पृथग् रसादिपरमाणव' इति, तदपास्तमवसेयं, प्रत्यक्षवाधितत्वात् तथाहि - य एव नैरन्तर्येण कुचकलशोपरिनिविष्ठा रूपपरमाणव उपलब्धिगोचरास्तेष्वेवाव्यवच्छेदेन सकलेष्वपि स्पर्शोऽप्युपलभ्यते, य एव च घृतादिरसपर| माणवः कर्पूरादिगन्धपरमाणवो वा तेष्वेव नैरन्तर्येण रूपं स्पर्शश्चोपलब्धिविषयः, अन्यथा सान्तरा रूपादय: प्रतीतिपथमित्रियुः, न च सान्तराः प्रतीयन्ते, तस्मादव्यतिरेकः परस्परं रूपादीनामिति, रूपिणश्च तेऽजीवाश्च रूप्यजीवास्तेषामभिगमो रूप्यजीवाभिगम: पुद्रलरूपाजीवाभिगम इतियावत्, पुद्गलानामेव रूपादिमत्त्वात्, रूपव्यतिरिक्ता अरूपिणो-धर्मास्तिकायादयस्ते च तेऽजीवाश्चारूप्यजीवा| स्तेषामभिगमोऽरूप्यजीवाभिगमः ॥ ३ ॥ तत्रारूपिणः प्रत्यक्षाद्यविषयाः केवलमागमप्रमाणगम्यास्तत्त्वत इति प्रथमतस्तद्विषयं प्रश्नसूत्रमाह - सुगमं, सूरिराह - ' अरुवी 'त्यादि । अरूप्यजीवाभिगमः ' दशविधः ' दशप्रकार: प्रज्ञप्तः, तदेव दशविधत्वमाह - तंजहेत्यादि, 'तद्यथे 'ति वक्ष्यमाणभेदकथनोपन्यासार्थः, धर्मास्तिकाय:, 'एवं जहा पण्णवणाए' इति 'एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा For Private & Personal Use Only अजीवा भिगमः सू. ३-४-५ ॥ ५ ॥ ww.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy