SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Jain Education % वक्तव्यं तावद् यावत् 'सेत्तं असंसारसमापन्नजीवाभिगमे' इति, तचैवम् — “धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स प एसा अधम्मत्थिकाए अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पएसा आगासत्थिकाए आगासत्थिकायस्त देखे आगासत्थि कायस्स परसा अद्धासमये" इति, तत्र जीवानां पुद्गलानां च स्वभावत एव गतिपरिणामपरिणतानां तत्स्वभावधारणात्पोषणाद्धर्मः अस्तयः - प्रदेशास्तेषां काय:- सङ्घातः “गण काए य निकाए खंधे वग्गे तहेव रासी य” इति वचनात् अस्तिकाय: - प्रदेशसङ्गात इत्यर्थः, धर्मश्चा| सावस्तिकायश्च धर्मास्तिकाय:, अनेन सकलधर्मास्तिकाय रूपमवयविद्रव्यमाह, अवयवी च नाम अवयवानां तथारूपः सङ्घातपरिणामविशेष एव न पुनरवयवद्रव्येभ्यः पृथगर्थान्तरद्रव्यं, तस्यानुपलम्भात्, तन्तव एव हि आतानवितानरूपसङ्घातपरिणामविशेषमापन्ना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम द्रव्यम् उक्तं चान्यैरपि – “तन्त्वादिव्यतिरेकेण, न पटाद्युपलम्भनम् । तन्वादयोऽविशिष्टा हि पटादिव्यपदेशिनः ॥ १ ॥” कृतं प्रसङ्गेन, अन्यत्र धर्मसङ्ग्रहणिटीकादावेतद्वादस्य चर्चितत्वात् तथा तस्यैव बुद्धिपरिकल्पितो यादिप्रदेशात्मको विभागो धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशा:- प्रकृष्टा देशाः प्रदेशाः, प्रदेशा निर्विभागा भागा इति ते चासङ्ख्येयाः, लोकाकाशप्रदेशप्रमाणत्वात्तेषाम्, अत एव बहुवचनं, धर्मास्तिकायप्रतिपक्षभूतोऽधर्मास्तिकायः, किमुक्तं भवति ? - जीवानां पुद्गलानां च स्थितिपरिणामपरिणतानां तत्परिणामोपष्टम्भको मूर्त्तोऽसङ्ख्यात प्रदेशात्मकोऽधर्मास्तिकायः, अधमस्तिकायस्य देश इत्यादि पूर्ववत्, तथा आ-समन्तात्सर्वाण्यपि द्रव्याणि काशन्ते - दीप्यन्तेऽत्र व्यवस्थितानीत्याकाशम्, अस्तयःप्रदेशास्तेषां कायोऽस्तिकायः, आकाशं च तदस्तिकायश्चाकाशास्तिकायः, आकाशास्तिकायस्य देश इत्यादि प्राग्वत्, नवरमस्य प्रदेशा अनन्ता:, अलोकस्यानन्तत्वात्, 'अद्धासमय' इति, अद्धेति कालस्याख्या, अद्धा चासौ समयश्वाद्धासमयः, अथवाऽद्धायाः समयो For Private & Personal Use Only w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy