Book Title: Jivajivabhigamopanga Sutra
Author(s): Chaturdash Purvadhar, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥५॥
Jain Education I
खंधप्पएसा परमाणुपोग्गला, ते समासतो पंचविहा पण्णत्ता, तंजहा वण्णपरिणया गंध० स० फास० संठाणपरिणया, एवं ते ५ जहा पण्णवणाए, सेत्तं रुविअजीवाभिगमे, सेत्तं अजीवाभिगमे ( सू० ५ )
अथ कोsar अजीवाभिगम: ?, सूरिराह-अजीवाभिगमो द्विविधः प्रज्ञप्तः, तद्यथा - रूप्यजीवाभिगमोऽरूप्यजीवाभिगमञ्च, रूपमेपामस्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणं, तद्व्यतिरेकेण तस्यासम्भवात् तथाहि - प्रतिपरमाणु रूपरसगन्धस्पर्शाः उक्तं च - " कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ एतेन यदुच्यते कैश्चित् “भिन्ना एव रूपपरमाणवो भिन्नाश्च पृथक् पृथग् रसादिपरमाणव' इति, तदपास्तमवसेयं, प्रत्यक्षवाधितत्वात् तथाहि - य एव नैरन्तर्येण कुचकलशोपरिनिविष्ठा रूपपरमाणव उपलब्धिगोचरास्तेष्वेवाव्यवच्छेदेन सकलेष्वपि स्पर्शोऽप्युपलभ्यते, य एव च घृतादिरसपर| माणवः कर्पूरादिगन्धपरमाणवो वा तेष्वेव नैरन्तर्येण रूपं स्पर्शश्चोपलब्धिविषयः, अन्यथा सान्तरा रूपादय: प्रतीतिपथमित्रियुः, न च सान्तराः प्रतीयन्ते, तस्मादव्यतिरेकः परस्परं रूपादीनामिति, रूपिणश्च तेऽजीवाश्च रूप्यजीवास्तेषामभिगमो रूप्यजीवाभिगम: पुद्रलरूपाजीवाभिगम इतियावत्, पुद्गलानामेव रूपादिमत्त्वात्, रूपव्यतिरिक्ता अरूपिणो-धर्मास्तिकायादयस्ते च तेऽजीवाश्चारूप्यजीवा| स्तेषामभिगमोऽरूप्यजीवाभिगमः ॥ ३ ॥ तत्रारूपिणः प्रत्यक्षाद्यविषयाः केवलमागमप्रमाणगम्यास्तत्त्वत इति प्रथमतस्तद्विषयं प्रश्नसूत्रमाह - सुगमं, सूरिराह - ' अरुवी 'त्यादि । अरूप्यजीवाभिगमः ' दशविधः ' दशप्रकार: प्रज्ञप्तः, तदेव दशविधत्वमाह - तंजहेत्यादि, 'तद्यथे 'ति वक्ष्यमाणभेदकथनोपन्यासार्थः, धर्मास्तिकाय:, 'एवं जहा पण्णवणाए' इति 'एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा
For Private & Personal Use Only
अजीवा
भिगमः
सू. ३-४-५
॥ ५ ॥
ww.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 938