Book Title: Jain Meghdutam
Author(s): Merutungacharya, Shilratnasuri, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 141
________________ सर्गः ।] श्रीमन्मेरुतुङ्गसूरिविरचितं क्तः प्रत्ययः "स्ताद्यशितो.” ( सि० ४-४-३२) इट् , "सेटक्तयोः” (सि० ४-३-८४ ) इति णिज्लोपः, प्रकृष्टः प्रगुणितः प्रगुणिततमः "प्रकृष्टे तमप्” (सि० ७-३-५)। औपयाम इति "यमूं उपरमे” यम् उपपूर्वः, उपयमनमुपयामः “संनिव्युपाद्यमः” (सि० ५-३-२५) इति अल्विकल्पात् “भावाकत्रोंः” (सि० ५-३-१८) घञ् प्रत्ययः, वृद्धिः, उपयामस्यायं औपयामः "तस्येदम्" (सि० ६-३-१६० ) अण् प्रत्ययः, वृद्धिः । अत्रानुप्रासदृष्टान्तरूपकसमुच्चयपरिकराः ॥ २६-२७ ॥ आमोदेनानुपरततरोऽहर्दिवं यादवीनां विष्वग्व्यापी पुरुरथ पुरेऽभूदुलूलध्वनियंत् । मन्ये धन्येतरनरकुलेष्वप्यनुत्साहधाम्नां शोकानां तत्प्रतिहतिजुषां तन्ननाशावकाशः ॥२८॥ 'अर्थ' अनन्तरं 'पुरे' नगरे यत् 'यादवीनां' यदुस्खीणां 'पुरुः' प्रभूतः 'उलूलध्वनिः' धवलध्वनिरभूत् । किंरूप उलूलध्वनिः ? 'आमोदेन' हर्षेण 'अहर्दिवं' दिने दिने 'अनुपरततरः' अत्यन्तमनिवृत्तः, हर्षेण यदुत्रियः कदाचिदपि धवलान् ददाना न निवर्तमानाः सन्ति इत्यर्थः । पुनः किंभूतः ? 'विष्वग्व्यापी' अतीव मधुरतारत्वात्समन्तात्प्रसरणशील इति । अहमेवं मन्ये 'तत् तस्माकारणात् 'धन्येतरनरकुलेष्वपि' सशोककुलेष्वपि शोकानामवकाशो ननाश, किंरूपाणां शोकानाम् ? 'अनुत्साहधाम्नां' दैन्यस्थानकानाम् , पुनः कथं भूतानाम् ? 'तत्प्रतिहतिजुषां' तेन उलूलध्वनिना प्रतिहतिः निराकरणं तां जुषन्तीति तत्प्रतिहतिजुषाम् , एतावताऽधमकुलेष्वपि तदा हर्ष एवास्ति न शोक इत्यर्थः । अहर्दिवमिति अहश्च दिवा च अहर्दिवम् "ऋक्सामय॑जुषधेन्वनडुहवाङ्मनस०” (सि० ७-३-९७ ) इत्यादिना समासान्तः अत्प्रत्ययः, अहर्दिवेति निपातः, पश्चात् "कालाध्वनोाप्तौ”(सि०२-२-४२) इति द्वितीया-अम् । अत्रातिशयोक्तिरनुमानमनुप्रासश्च । तत्रानु

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205