Book Title: Jain Meghdutam
Author(s): Merutungacharya, Shilratnasuri, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 162
________________ १३६ जैनमेघदूतम्। [तृतीयः 'अक्षकाः' बिभीतकाः क ? 'अमरदुः' कल्पवृक्षः क?, 'काचांशाः' काचशकलानि क ? 'दिविजमणिः' चिन्तामणिः क?, 'उडवः' नक्षत्राणि क ? 'धुरनं सूर्यः क ?, अन्ये 'भूपाः' राजानः क ? 'भुवनगुरुः' श्रीनेमिः क ?, अतो यद्भवतीभिः प्रोक्तं पुनरन्यो वरो भावीति तन्निषिद्धम् , तत अन्ये भूपा पावबिभीतककाचखण्डसामान्यग्रहतुल्याः, भगवान् मेरुकल्पद्रुचिन्तामणिसूर्यतुल्यः, अतो मम स एव ध्येय इति । दिवि जायत इति दिविजः "अनोर्जनेर्डः” (सि०५-१-१६८) डप्रत्ययः, "डियन्यस्वरादेः” (सि० २-१-११४), "धुप्रावृड्वर्षाशरत्कालात्" (सि० ३-२-२७) इति सप्तम्या अलुप् । प्रत्यजानि इति ज्ञांश धातुः प्रतिपूर्वः "संप्रतेरस्मृतौ” (सि० ३-३-६९ ) इत्यात्मनेपदम् , इ, "अड् धातोरादिस्तिन्यां चामाङा" (सि०४-४-२९) अडागमः, "यादेः” (सि० ३-४-७९) भा ना, "जा शाजनोऽत्यादौ” (सि० ४-२-१०४) ज्ञा जा, "श्चातः" (सि०४-२-९६) आकारलोपः, प्रत्यजानि इति निष्पन्नम् । अत्र यथासङ्ख्यार्थान्तरन्यासविषमाद्याः ॥ ५४॥ यद्यप्येनं परिणयमहं विश्वविश्वाभिनन्द्यो: तिर्यकारं त्वमिव सलिलासारमाञ्चत्पतिर्मे । आगार्हस्थ्यस्थिति तदपि चावार्षिक तवैवाऽ मुष्यैवाशां हृदि विदधती सेयमस्थां प्रजेव ॥ ५५ ॥ हे मेघ! यद्यपि 'मे' मम पतिः एनं 'परिणयमहं' पाणिग्रहणोत्सवं 'अतिर्यकारं' असमाप्तं कृत्वा 'आश्चत्' अगात् , किंरूपो भगवान् ? 'विश्वविश्वामिनन्द्यः' विश्वेन समस्तेन विश्वेन जगताऽभिनन्द्यः श्लाघ्यः। क इव ? 'त्वमिव' यथा त्वं 'सलिलासारं' सलिलस्य पानीयस्य आसारो वेगवान वृष्टिः तं अतिर्यकारं असमाप्तं कृत्वाऽञ्चसि १ पुंस्त्वं चिन्यम्, वर्षः इति हि स्यात् ।

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205