Book Title: Jain Meghdutam
Author(s): Merutungacharya, Shilratnasuri, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 175
________________ सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं 'बाष्पायमाणा' कामाग्नितापादत्यर्थ बाष्पमुद्वमन्ती, अनन्योच्छिष्टा' अन्यैरभुक्तेत्यर्थः । किंरूपेण त्वया ? 'नवरुचिभृताऽपि' नवा रुचिः कान्तिर्जिघत्सा वा तां बिभर्तीत्येवंभूतः तेन, यथाऽन्योऽपि बुभुक्षावान् शीतलां क्षैरेयीं न भुङ्क्ते परमत्युष्णां क्षैरेयीं भुङ्क्ते तथा कामाग्नितप्ताया ममापि भोगे साम्प्रतमवसर इत्यर्थः । अत्रोपमा श्लेषविशेषोक्तयः ॥ १५ ॥ आसीः पश्चादपि यदि विभो ! मां मुमुक्षुर्मुमुक्षुः भूत्वा तत्किं प्रथममुररीचकेरीषि स्वबुद्ध्या । सन्तः सर्वेऽप्यतरलतया तत्तदेवाद्रियन्ते यनिर्वोढुं हरशशिकलान्यायतः शक्नुवन्ति ॥ १६ ॥ हे ('विभो!' ) नाथ ! त्वं पश्चादपि यदि 'मुमुक्षुः' मुनिः भूत्वा मां 'मुमुक्षुः' मोक्तुकाम आसीः तत् प्रथमं 'स्वबुद्ध्या' स्वजनबुद्ध्या किं 'उररीचर्करीषि' अत्यर्थमङ्गीकरोषि ?, सर्वेऽपि सन्तः 'अतरलतया' निश्चलतया तत्तदेव वस्तु 'आद्रियन्ते' प्रारभन्ते यद् हरशशिकलान्यायतः 'निर्वोढुं' निर्वहणाय ‘शक्नुवन्ति' समर्था भवन्ति, यथा हरेण ईश्वरेण शशिकला चन्द्रकला मस्तके स्थापिता कदापि न मुच्यते । उररी इति अङ्गीकारार्थे ऊर्यादौ, "ऊर्याद्यनुकरणचिडाचश्च गतिः” (सि० ३-१-२) गतिसंज्ञा । अत्रानुप्रासार्थान्तरन्यासनिदर्शनाद्याः ॥ १६ ॥ सत्रादत्राहृतमसुमता वृन्दमानन्दसम ज्ञानाभावादपगुणमपि क्लेशनाशादकार्षीः । व्यक्तं भक्तं जनमिममथो मोदयस्यतिभाज नो वाचाऽपि प्रसृमरकृपच्छेक! कोऽयं विवेकः ११७ हे नाथ! त्वं 'असुमता' प्राणिनां वृन्दं क्लेशनाशात् 'आनन्दसद्म' हर्षपात्रमकार्षीः, किंरूपं वृन्दम् ? 'सत्रात्' वनात् 'अत्र' पुरान्तः 'आहृतं' आनीतम् , पुनः कथंभूतम् ? ज्ञानाभावात् 'अपगुणमपि

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205