Book Title: Jain Meghdutam
Author(s): Merutungacharya, Shilratnasuri, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 177
________________ सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं १५१ पित्र्यः सोऽयं तव मुंररिपुः सुन्दरीणां सहस्रैः लीलागारेऽनुपरततरः सन्ततं रंरमीति । ऊरीकर्तु क्षणमुदसहस्त्वं तु नैकामपीदृक् सामर्थेऽपि प्रकृतिमहतां कोऽथवा वेत्ति वृत्तम् ॥१९॥ हे नाथ! अयं 'मुररिपुः' मुरारिः तव 'पित्र्यः' ज्येष्ठभ्राता 'सुन्दरीणां' स्त्रीणां सहस्रैः 'लीलागारे' क्रीडागारे 'सन्ततं' निरन्तरं 'रंरमीति' अत्यर्थ रमते, किंरूपः पित्र्यः ? 'अनुपरततरः' अत्यर्थमनिवृत्तः । 'तु' पुनस्त्वं ईदृक्सामर्थेऽपि' ईदृक्समर्थत्वेऽपि सति एकामपि सुन्दरी 'ऊरीकर्तु' अङ्गीकर्तु क्षणं न उदसहः' उत्सहसे स्म । अथवा 'प्रकृतिमहतां' स्वभावगरिष्ठानां पुरुषाणां 'वृत्तं चरित्रं को वेत्ति ? अपि तु न कोऽपि वेत्ति । अथवा प्रकृष्टाः कृतिनो दक्षास्तेषु महताम् , एतावता अत्यन्तगाढतरचतुराणामत्यन्तचतुरत्वमपि लोके उपहासायति व्यङ्ग्यम् । पितुस्तुल्यः पित्र्यः "शाखादेर्यः"(सि० ७-१-११४)इति यप्रत्ययः, "ऋतो रस्तद्धिते” (सि० १-२-२६) करः । 'उदसहः' इत्यत्र "युजादे वा” (सि० ३-४-१८) अनेन णिजूविकल्पः । अत्र विरोधार्थान्तरन्यासानुप्रासाद्याः॥१९॥ श्रीमानहनितरजनवन्मन्मथस्य व्यथाभिः किं बाध्यतेत्यखिलजनतां मा रिरेकाम कामम् । ध्यात्वैवं चेत्तपसि रमसे तत्प्रतिज्ञातलोपे कस्तामत्र त्रिभुवनगुरो ! रेकमाणां निषेद्धा? ॥२०॥ हे नाथ! त्वमेवं बुद्धा (चेत् ) तपसि रमसे, एवमिति किम् ? वयं 'अखिलजनता' समस्तजनसमुदायं 'काम' अत्यर्थ इति 'मा रिरेकाम' शङ्कां नो कारयामः, इतीति किम् ? श्रीमान् अर्हन् इतरजनवत् 'मन्मथस्य' कामस्य 'व्यथाभिः' पीडाभिः किं 'बाध्येत' पीड्येत ?, यद्यहं पाणिग्रहणं करिष्यामि तदा सर्वे जनाः शङ्कां करिष्यन्ति यदहन्तोऽपि प्राकृतलोकवत् कामेन किं बाध्यन्ते ? अतः

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205