________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं
१५१ पित्र्यः सोऽयं तव मुंररिपुः सुन्दरीणां सहस्रैः
लीलागारेऽनुपरततरः सन्ततं रंरमीति । ऊरीकर्तु क्षणमुदसहस्त्वं तु नैकामपीदृक्
सामर्थेऽपि प्रकृतिमहतां कोऽथवा वेत्ति वृत्तम् ॥१९॥ हे नाथ! अयं 'मुररिपुः' मुरारिः तव 'पित्र्यः' ज्येष्ठभ्राता 'सुन्दरीणां' स्त्रीणां सहस्रैः 'लीलागारे' क्रीडागारे 'सन्ततं' निरन्तरं 'रंरमीति' अत्यर्थ रमते, किंरूपः पित्र्यः ? 'अनुपरततरः' अत्यर्थमनिवृत्तः । 'तु' पुनस्त्वं ईदृक्सामर्थेऽपि' ईदृक्समर्थत्वेऽपि सति एकामपि सुन्दरी 'ऊरीकर्तु' अङ्गीकर्तु क्षणं न उदसहः' उत्सहसे स्म । अथवा 'प्रकृतिमहतां' स्वभावगरिष्ठानां पुरुषाणां 'वृत्तं चरित्रं को वेत्ति ? अपि तु न कोऽपि वेत्ति । अथवा प्रकृष्टाः कृतिनो दक्षास्तेषु महताम् , एतावता अत्यन्तगाढतरचतुराणामत्यन्तचतुरत्वमपि लोके उपहासायति व्यङ्ग्यम् । पितुस्तुल्यः पित्र्यः "शाखादेर्यः"(सि० ७-१-११४)इति यप्रत्ययः, "ऋतो रस्तद्धिते” (सि० १-२-२६) करः । 'उदसहः' इत्यत्र "युजादे वा” (सि० ३-४-१८) अनेन णिजूविकल्पः । अत्र विरोधार्थान्तरन्यासानुप्रासाद्याः॥१९॥ श्रीमानहनितरजनवन्मन्मथस्य व्यथाभिः
किं बाध्यतेत्यखिलजनतां मा रिरेकाम कामम् । ध्यात्वैवं चेत्तपसि रमसे तत्प्रतिज्ञातलोपे
कस्तामत्र त्रिभुवनगुरो ! रेकमाणां निषेद्धा? ॥२०॥ हे नाथ! त्वमेवं बुद्धा (चेत् ) तपसि रमसे, एवमिति किम् ? वयं 'अखिलजनता' समस्तजनसमुदायं 'काम' अत्यर्थ इति 'मा रिरेकाम' शङ्कां नो कारयामः, इतीति किम् ? श्रीमान् अर्हन् इतरजनवत् 'मन्मथस्य' कामस्य 'व्यथाभिः' पीडाभिः किं 'बाध्येत' पीड्येत ?, यद्यहं पाणिग्रहणं करिष्यामि तदा सर्वे जनाः शङ्कां करिष्यन्ति यदहन्तोऽपि प्राकृतलोकवत् कामेन किं बाध्यन्ते ? अतः