________________
१५२
जैनमेघदूतम् । [चतुर्थः पाणिग्रहणं त्यक्त्वा तपसि रेमे । 'तत् तदा हे त्रिभुवनगुरो ! अत्र 'प्रतिज्ञातलोपे' अङ्गीकृतपरित्यागे 'तां' जनता 'रेकमाणां' शङ्कमानां को 'निषेद्धा' निषेत्स्यति ? अयमर्थः-यदि पूर्वशङ्कानिराकरणाय पाणिग्रहणं मुक्तं तदापि अङ्गीकृतं प्रतिज्ञातं पाणिग्रहणं मुक्त्वा तपो लास्यसि तदापि लोकः शङ्कां करिष्यति यन्महान्तः किं प्रतिज्ञा. लोपं कुर्वन्ति ? । अत्र मा रिरेकाम इति "रेकृङ् शङ्कायाम्” रेक्, रेकमाणां प्रायुक्ष्महि "प्रयोक्तृव्यापारे णिग्” (सि०३-४-२०) णिग्, “अद्यतनी दि ताम् अन्” (सि० ३-३-११) इति म, माङ्योगेऽनिषेधः, "णिश्रिद्रुकमः कर्तरि०” (सि०३-४-५८) ङप्रत्ययः, "आद्योऽश एकस्वरः" ( सि० ४-१-२) रे द्विः, "हस्वः” (सि०४-१-३९) रि, "णेरनिटि” (सि०४-३-८३) णिग्लोपः, "लोकात्” (सि०१-१-३) क सस्वरमव्यस्याः आकार इति मा रिरेकामेति सिद्धम् । अत्र व्यतिरेकोपमानुप्रासाद्याः ॥२०॥ तारुण्येऽपि प्रभवति यदि ध्वस्तवैराग्यरङ्गे
नीरागोऽस्मीत्यविकृतधिया कामभोगानहासीः। तत्कि पात्रेसमितजनतापतिभीतेन शङ्ख
खानात् क्षोभः पुरि हरिभुजामोंटनं च व्यधायि ॥२१॥ हे नाथ! यदि त्वमिति ‘अविकृतधिया' निर्विकारबुद्ध्या कामभोगान् 'अहासीः' अत्याक्षीः, इतीति किम् ? अहं तारुण्येऽपि 'प्रभवति' प्रौढीभवति सति 'नीरागोऽस्मि' संसाररागरहितो वर्ते, किंरूपे तारुण्ये ? 'ध्वस्तवैराग्यरङ्गे' ध्वस्तो विनाशितो वैराग्यस्य रङ्गो येनासौ ध्वस्तवैराग्यरङ्गस्तस्मिन् । 'तत् तदा त्वयेत्यसदप्याक्षिप्यते 'शङ्खवानात्' शङ्खनादात् 'पुरि' नगर्या 'क्षोभः' आकम्पः 'हरिभुजामोटनं च' हरिः कृष्णस्तस्य भुजस्यामोटनं वालनं च 'किं व्यधायि ?' कथं चक्रे ?, किंविशिष्टेन त्वया ? 'पात्रेसमितजनतापडिभीतेन' यः पराक्रमरहितः केवलं भोजनवेलायामेव पात्रेषु