________________
सर्गः] श्रीमन्मेरुतुङ्गसूरिविरचितं १५३ न्यस्तेषु (समेति ) मिलति स पात्रेसमितः कथ्यते, पात्रेसमिता पौरुषरहिता जनता तस्याः पीतेन यद्यहं कञ्चित्पराक्रम न कलयिष्यामि तदा लोको भोजनसमर्थानामेव जनानां पङ्को मां स्थापयिष्यतीति । अतो यदि त्वमेकान्तेन नीरागो वर्तसे तदा त्वया शङ्खपूरणं कृष्णबाहुमोटनं च कथं क्रियते स्म ?, यदि तत् पौरुषप्रकाशनार्थ कृतं तदा पाणिग्रहणमपि क्रियतामित्यर्थः । पात्रेसमित इत्यत्र "पात्रेसमितेत्यादयः” (सि०३-१-९१) इत्यलुक्समासः। अत्र समासोक्तिसमुच्चयानुप्रासाः ॥ २१ ॥ मुग्धं स्निग्धं सितमतिजवं रिढणं यत्र तत्र
प्रेक्षाचित्रं भुवि विलुठनं बन्धनं रिक्तमुष्टेः। उत्तानत्वे करचरणनं प्रोक्तमव्यक्तवर्ण
यानं पद्भयामनृजु शनकैर्यत्तदाकृष्टिकासा ॥२२॥ आहूतस्याभिमुखमुभयापाणि दूरेण यानं
कण्ठाश्लेषः प्रणयिनि हठात् स्थानमङ्के जनन्याः। कूर्चाकर्षः पितुरिति कुतः प्राकृतार्भानुरूपं
दिव्यज्ञानत्रितयकलितोऽचेष्टथाश्चेदरागः॥२३॥युग्मम्॥ हे नाथ! 'चेत्' यदि त्वं 'अरागः' वीतरागो वर्तसे तदा इति 'प्राकृतार्भानुरूपं' प्राकृताः सामान्या अर्भा बालकास्तेषामनुरूपं योग्यं यथा भवति दिव्यज्ञानत्रितयकलितः सन् त्वं कुतः 'अचेष्टथाः' चेष्टसे स्म ?, इतीति किम् ? 'मुग्धं' मनोज्ञ 'स्निग्ध' स्नेहयुक् 'स्मितं' हास्यम् , 'अतिजवं रिङ्खणं अत्यन्तवेगं रिक्षणं बालगत्या गमनम् , 'यत्र तत्र' अभिमुखे यस्मिन् तस्मिन् पदार्थे 'प्रेक्षाचित्रं वीक्षणकौतुकम् , 'भुवि विलुठनं' पृथिव्यां लोटनम् , 'रिक्तमुष्टेः' अन्तर्वस्तुविकलाया मुष्टेबन्धनम् , 'उत्तानत्वे' उत्तानभावे 'करचरणनं' करचरणयोः क्षेपणम् , अव्यक्तवर्ण 'प्रोक्तं' जल्पनम् , पन्यां 'अनृजु' वक्र ‘शनकैः' मन्दं मन्दं 'यानं गमनम् , 'यत्तदाकृष्टिकाङ्का'