________________
१५४
जैनमेघदूतम् । [चतुर्थ: यत्तद्वस्त्वाकर्षणवाञ्छा, 'उभयापाणि अभिमुखमाहूतस्य दूरेण यानं' उभयाभ्यां पाणिभ्यां सम्मुखमाकारितस्य दूरं गमनम् , 'प्रणयिनि' निग्धे जने हठात् 'कण्ठाश्लेषः' कण्ठे विलगनम्, जनन्या 'अड़े उत्सङ्ग स्थानम् , पितुः 'कूर्चाकर्षः' स्पष्टम् । अत्र करचरणनं कर. चरणौ निरस्यति "अङ्गानिरसने णि" ( सि० ३-४-३८) णिप्रत्ययः, "त्रन्त्यस्वरादेः” (सि०७-४-४३) अन्त्यस्वरलोपः, करचरण्यते स्म करचरणनम् , क्लीबे "अनट्” (सि०५-३-१२४) अनट्प्रत्ययः, "णेरनिटि” ( सि० ४-३-८३ ) णिलोपः । उभयाभ्यां पाणिभ्यां उभयापाणि "द्विदण्ड्यादिः” (सि०७-३७५) णिचप्रत्ययः, उभयापाणि इति निपातः । अत्र जातिसमुचयसमासोक्त्यनुप्रासाद्याः ॥ २२ ॥ २३ ॥ एतत्सर्व गुरुजनमनोमोदनाथ यदि त्वं
तत्वं विन्दुः स्वयमकुटिलं खीचकर्थ प्रकामम् । इत्थकारं कतिचन समा मन्मुदे दारकर्म
खीकृत्यैतत् किमुपजरसं नो तपस्तप्यसे स ॥२४॥ हे नाथ ! यदि त्वं 'एतत्सर्वं' पूर्वकाव्यद्वयोक्तं बालक्रीडाका. रणकलापं 'गुरुजनमनोमोदनाथै' गुरवः पितृमात्रादयो गुरुजनाः तेषां मनोहर्षार्थ 'स्वयम्' आत्मना 'अकुटिलं' सरलं यथा भवति 'प्रकाम' अत्यर्थ 'स्वीचकर्थ' अङ्गीकृतवान् । किंविशिष्टस्त्वम् ? 'तत्त्वं विन्दुः' परमार्थ विदन् 'इत्थङ्कार' त्वं इत्थं अनेन प्रकारेण कृत्वा 'कतिचन समाः' कतिचन वर्षाणि 'मन्मुदें' मम हर्षाय 'दारकर्म' विवाहं स्वीकृत्य 'उपजरसं' जरायाः समीपे एतत्तपः किं न तप्यसे स्म ? । अयं भावः-यथा स्मितादिका बालक्रीडा गुरुजनहर्षाय कृता एवं मम हर्षाय पाणिग्रहणं कृत्वा पश्चाद्यदि तपस्तप्तं स्यात्तदा भव्यमकरिष्यः । विन्दुरिति "विदक् ज्ञाने" विद् वेत्तीति विन्दुः "विन्द्विच्छू” (सि०५-२-३४) उप्रत्यये विन्दुरिति निपातः।