________________
श्रीमन्मेन्तुरिपिरपित
सर्गः। अस्त्र स्खं चकर्थ खीचकर्य "कवतिभ्यां कर्मवीभ्यां प्राप चिः” ( सि०७-२-१२६ )चिप्रत्ययः, "अयोगी (नि. १-१-३७ ) विलोपः, "ईश्वाववर्णस्यानव्ययस (सि. ४-३-१११ ) ईकारः, कृधातोः परोक्षा-थवि चकर्थेति । इत्य. कारमिति इदं अनेन प्रकारेण इत्थम् "कथमित्थं” (सि०७-२-१०३) इति इत्थं निपातः, इत्थं कृत्वा इत्थङ्कारम् , "अन्यथैवंकथमित्थमः कृगोऽनर्थकात्” (सि० ५-४-५०) णम्प्रत्ययः, "नामिनोऽकलिहलेः” (सि० ४-३-५१) वृद्धिः। उपजरसं जरायाः समीपे उपजरसम् “जराया जरस् च” (सि० ७-३-९३), "समासान्तः” ( सि० ७-३-६९) अत्प्रत्ययः, जरास्थाने जरस् आदेशः, सप्तमी ङिः "सप्तम्या वा” (सि० ३-२-४) इति अम् । तप्यसे स्म इति "तपेस्तपःकर्मकात्” (सि० ३-४-८५) इतिसूत्रेण कर्तरि क्यप्रत्यय आत्मनेपदं च । अत्रानुप्राससमाद्याः ॥२४॥ त्रैलोक्येशः प्रथितमान चारुचक्षुष्यरूप
स्तुल्योन्मीलद्गुणविकलया जातु मा मीमिले स्वम् । एवं बुद्धा तपसि वदसे यत्कृते मुक्तिकान्तां । ___तां मन्येथा अपगुणतया दर्शनस्याप्यनर्हाम् ॥२५॥
हे नाथ ! त्वं एवं बुवा यत्कृते तपसि 'वदसे' यत्नं कुरुषे यस्या मुक्तेः कृते, एवमिति किम् ? अहमनया 'जातु' कदाचित् स्वं 'मा मीमिले' मा इति निषेधे न मेलयामीत्यर्थः।किविशिष्टोऽहम् ? त्रैलोक्येशः प्रथितमहिमा' इति स्पष्टम् , पुनः किंरूपोऽहम् ? चारु मनोज्ञं चक्षुष्यं सुभगं रूपं यस्य सः । किंरूपयाऽनया? 'तुल्योन्मीलद्गुणविकलया' तुल्या अधिकारादात्मनः सदृशा उन्मीलन्तो विकसन्तो ये गुणास्तैर्विकलया रहितया असौ मम गुणैर्न तुल्येति मां मुक्त्वा यस्या मुक्तेः कृते तपसि वदसे 'तो' मुक्तिकान्तां 'अपगुणतया' निर्गुणतया दर्शनस्थापि 'अनहीं' अयोग्यां मन्येथाः, सा निर्गुणतया द्रष्टुमप्ययोग्या।