________________
१५६
जैनमेघदूतम् ।
[ चतुर्थः
पक्षे गुणाः सत्त्वरजस्तमांसि ते मुक्तौ न वर्तन्ते, ततोऽपगुणाऽरूपतया दर्शनाऽयोग्येत्यर्थः । मा मीमिले " मिलत् श्लेषणे" मिल मिलन्तं प्रयुजे " प्रयोक्तव्यापारे णिगू” ( सि० ३ - ४ -२० ) णिग् "नामिनो गुणोऽक्किति” ( सि० ४-३ - १ ) गुणः मे, "माङयद्यतनी” ( सि० ५ - ४ - ३९ ) इतिसूत्रेण अद्यतनी इ, " णिश्रिस्रुकमः कर्तरि ० ” ( सि० ३ - ४ - ५८ ) ङप्रत्ययः, “उपान्त्यस्यासमानलोपि शास्वृदितो डे" ( सि० ४ - २ - ३५ ) इखः मि, “आद्योंऽश एकस्वर: " ( सि० ४ - १-२ ) मि द्वि:, "लघोदीर्घोsस्वरादेः " ( सि० ४ - १-६४ ) दीर्घः मी, "णेरनिटि" ( सि० ४-३ - ८३ ) णिग्लोपः, लोकात् "अवर्णस्येवर्णा ०" ( सि० १ - २ - ६ ) इति सिद्धम् । वदसे इत्यत्र " दीप्तिज्ञानयत्त्रविमत्युपसम्भाषोपमन्त्रणे वदः " ( सि० ३ - ३-७८ ) इत्यात्मने - पदम् । अत्र विषमानुप्रासश्लेषव्याजस्तुत्यलङ्काराः ॥ २५ ॥
प्रागानन्त्यैर्नृमिरर मि या निर्गुणा चाकुलीनाsदृश्याङ्गश्रीरभिजनघनोच्छेदिनी रागरिक्ता । सक्तस्तस्यां सकलललना निर्वृतीत्याख्ययैवाऽभीकोत्तंसस्त्यजसि यदि तत्संसृतौ न स्थितिस्ते ॥२६॥ 'या' मुक्तिकान्ता प्राग् 'आनन्त्यैः' अनन्तैः 'नृभिः' पुरुषैः 'अरमि' रमयामासे, किंरूपा या ? 'निर्गुणा' लावण्यादिगुणरहिता 'अकुलीना' न सुकुलोत्पन्ना, पुनः कथंभूता ? 'अदृश्याङ्गश्रीः' द्रष्टुमयोग्या अङ्गस्य देहस्य श्रीः शोभा यस्याः, पुनः अभिजनं गोत्रं धनं शरीरं च उच्छिनत्तीत्येवंशीला, पुनः 'रागरिक्ता' रागविवर्जिता एवंविधा कान्ता सदूषणा भवति, पक्षे या मुक्तिः प्राग् आनन्त्यैर्नृभिः सिद्धरूपैः अरमि अनन्तसिद्धानां तत्र स्थितत्वात्, निर्गुणा सत्त्वादिगुणत्रयविकला, अकुलीना, अदृश्या अङ्गश्रीः अङ्गशोभा यस्यां सा, मुक्तेः शिलारूपत्वाद्विशिष्टाङ्गोपाङ्गाभावः, अभिजनघनोच्छेदिनीति मुक्तौ