________________
सः। प्राप्तायां गोत्रं शरीरं च व्यवच्छिद्यते, सिद्धानामशरीरत्वात् । रिक्तेति स्पष्टमेव । हे नाथ ! यदि त्वं निर्वृतीत्याख्ययैव तस्यां सक्तः सन् सकलललनास्त्यजसि, मुक्तेर्निर्वृतिनाम, निर्वृतिस्तु समाधिः कथ्यते, अतस्तेन नाग्नैवानुरक्तः सन् सर्वत्रीः परिहरसि तत् 'ते' तव 'संसृतौ' संसारे 'न स्थितिः' न स्थानं वर्तते मुक्तावेवेत्यर्थः, एवमुक्ते निन्दास्तुतिया। किंविशिष्टस्त्वम् ? 'अभीकोत्तंसः' अभीकाः कामिनस्तेषामुत्तंसो मुकुटः, यतस्त्वं निर्गुणायामपि तस्यामनुरक्तोऽतो गाढतरः कामीति । पक्षेऽभीका निर्भयास्तेषामुत्तंसः । आनन्येति अनन्ता एव आनन्याः "भेषजादिभ्यष्ट्यण” (सि० ७-२-१६४ ) ट्यणप्रत्ययः य इति "वृद्धिः स्वरेष्वादिः” (सि० ७-४-१) वृद्धिः । अरमीति रममाणा प्रयुज्यते स्म णिग् "णिति" (सि०४-३-५०) वृद्धिः रा, "अमोऽकम्यमिचमः"(मि०४-२२६) हस्वः, अद्यतनी त इति । अत्र व्याजस्तुतिश्लेषाद्याः ॥२६॥
वरुद्धयं चेन्मनसि मनुषे स्त्रीषु तत् किं न पौंस्ने
त्वं भद्राम्भोनिधिरपि गलत्पश्चभद्रत्वमुद्रः। सर्वत्रैषा यदि तव पुरोमागितैवाथ युक्ता
शीर्षच्छेद्या अपि तदपि वै सूरतानामवध्याः ॥२७॥ हे नाथ ! त्वं चेत् 'स्त्रीषु' स्त्रीविषये मनसि वैरुद्ध्यं ‘मनुषे' जानासि, विरुद्धस्य भावो वैरुद्ध्यम् , स्त्रियो मायातुच्छतादिदोषैविरुद्धा इति जानासि इत्यर्थः, तत् पौंस्ने वैरुद्ध्यं किं न मनुषे ?, पुंसां समूहे पौंस्ने, अतः पुंसोऽपि विरुद्धान् किं न जानासि ?, पुमांसोऽपि विरुद्धा विषमाचारा इत्यर्थः । वैरुद्ध्यमेव पुरुषेष्वपि युक्त्या स्पष्टयति-वं 'भद्राम्भोनिधिरपि' भद्राणां कल्या. णानां समुद्रोऽपि पञ्चसङ्घयानि भद्राणि पञ्चभद्राणि, पञ्चभद्राणां भावः पञ्चभद्रत्वम् , तस्य मुद्रा मर्यादा पञ्चभद्रत्वमुद्रा, गलन्ती
१४