________________
१५८ जैनमेघदूतम् ।
[चतुर्थः व्यवमाना पञ्चभद्रत्वमुद्रा यस्य सः, यो भंद्राणां समुद्रः एतावता सर्वभद्राणां स्थानं भवति तस्य पञ्च भद्राणि कथं गलन्तीति विरोधः। अथ विरोधपरिहारमाह-त्वं भद्राम्भोनिधिरपि गलत्पश्चभद्रत्वमुद्रः, पञ्चभद्रस्तु विप्लुतव्यसनीत्यर्थः,तस्य भावः पञ्चभद्रत्वं व्यसनित्वम्, गलन्ती पञ्चभद्रत्वमुद्रा यस्य सः, एतावता त्वं व्यसनी न वर्तसे निर्विकारोऽसीत्यर्थः । 'अर्थ' अनन्तरं यदि तव सर्वत्रैषा पुरोभागितैव युक्ता, "दोषैकदृक् पुरोभागी" ( अभिधान० ३-४४) यो गुणान्मुक्त्वा केवलं परस्य दोषानेव पश्यति स पुरोभागी कथ्यते, अतस्त्वमपि स्त्रीषु गुणान्मुक्त्वा केवलान् दोषानेव पश्यसीत्यर्थः, अथवा तव सर्वत्र पुरोभागितैव अप्रेसरतैव युक्ता तदपि 'वे' निश्चितं 'सूरतानां कृपालूनां 'शीर्षच्छेचाः' वधाही अपि 'अवध्याः' अघात्याः । अयमर्थः-यद्यपि सदोषत्वेन दण्डयोग्याः स्मः तदापि दयालूनां वध्या न भवामः किन्तु अनुकम्प्या एव । पौने इति पुंसां समूहः पौनम् "प्राग्वतः स्त्रीपुंसानन" (सि० ६-१-२५) सप्रत्ययः, "वृद्धिः खरेष्वादिः” (सि. ७-४-१) वृद्धिः पौं, "पदस्य" (सि० २-१-८९)सलोपः, "शिड्ढेऽनुस्वारः” (सि० १-३-४०) अनुस्वारः । शीर्षच्छेदमर्हन्ति शीर्षच्छेद्याः "शीर्षच्छेदाद् यो वा" ( सि. ६-४-१६४) यप्रत्ययः, "अवर्णेवर्णस्य” (सि. ७-४-६८) जवर्णस्य लोपः । अत्र विरोधश्लेषाद्याः ॥ २७ ॥ कामः कामं विषमविशिखैरेष जेनीयते यत्
यद्वा मन्युः परिभवभवो मां सपत्राकरोति । निर्वीराऽसौ तदहमवलासासहिः पापतिश्चेत्
निश्चैतन्यानवतिपुरुषी खातिकांसाचदा किम् ॥२८॥ हे नाथ! यद् एष कामः 'काम' अत्यर्थ 'विषमविशिखैः'