________________
सर्गः। श्रीमन्मेरुतुङ्गसूरिविरचितं १५१ विषमबाणैः 'जेनीयते' अत्यर्थ हन्ति, 'यद्वा' अथवा 'परिभवभवः' पराभवोत्पन्नः 'मन्युः क्रोधो मां 'सपनाकरोति' अत्यन्तं व्यथते, तद् 'असौ अहं 'चेत्' यदि 'असासहिः' अमर्षशीला सती 'निश्चैतन्यात् अचेतनावस्थातः 'नकतिपुरुषी' नवतिपुरुषप्रमाणां खातिका 'पापतिः' पतनशीला स्यां तदा किं स्यात् ?, एतावताऽतीवासदृशं भवेदित्यर्थः । किंरूपाऽहम् ? निर्वीरा' निष्पतिसुता ( तथा 'अबला' बलरहिता) अतो मम सारा कर्तुं युक्तेति रहस्यम् । अत्र सपत्राकरोतीति सपत्र अग्रे कृग् “सपत्रनिष्पत्रादतिव्यथने” (सि. ७-२-१३८) डाप्रत्ययः । असासहिः पापतिः इति "पहि मर्षणे" षड् , धात्वादेः षः सः सह , "पल पथे गतौ” पत्, भृशं पुनः पुनर्वा सहते पततीति "व्यञ्जनादेकखराद् भृशाभीक्ष्ण्ये या वा” ( सि० ३-४-९) यङ्प्रत्ययः, "सन्यङञ्च” (सि० ४-१-३ ) द्विः, "आगुणावन्यादेः” (सि०४-१-४८) आ, सासह्यते पापत्यते इत्येवंशीला " सासहिवावहिचाचलिपापतिः" (सि० ५-२-३८) डिप्रत्यये सासहिः पापतिरिति निपातः, न सासहिरसासहिः । निश्चैतन्यादिति चैतन्यस्याभावो निश्चैतन्यम् "विभक्तिसमीपसमृद्धिव्यूद्ध्यर्थाभावात्ययासम्प्रतिपश्चात्क्रमख्यातियुगपत्सदृक्संपत्साकल्यान्तेऽव्ययम्” (सि० ३-१-३९) अनेन सूत्रेणाभावे निर्माक्षिकवदव्ययीभावः समासः, पञ्चमी डस् "अमव्ययीभावस्यातोऽपञ्चम्याः” (सि० ३-२-२) इत्यत्र पञ्चमीवर्जनात् सेरम् न । नवतिः पुरुषाः प्रमाणं यस्याः सा नवतिपुरुषी "हस्तिपुरुषाद्वाऽण्” ( सि०७-१-१४१) अणप्रत्ययः, "माना. दसंशये लुप्" (सि०७-१-१४३) अण्लोपः, "पुरुषाद्वा" (सि० २-४-२५) डीप्रत्ययः। अत्रानुप्रासहेत्वतिशयोक्त्याद्याः॥२८॥ क' कमिव निवसितं सहुकूलं कुकूलं
ग्लावं दावं नलिनमलिनं भूषणं त्र्यूषणं वा।